________________
४४२
विशेषावश्यकभाष्ये
[नि० ४७९तत्प्रतिपादनार्थमुच्यते--- रूवरसगंधफासा संखासंठाणदवसचीओ । कुम्भो ति जतो ताओ पसूतिविच्छित्तिधुवधम्मा ॥२४१८॥
रूप-रस-गन्ध-स्पर्श-सङ्ख्या-संस्थान-द्रव्यशक्तयः कुम्भ इत्युच्यते, द्रव्यपर्यायोभयरूपत्वाद वस्तुनः । ताश्च रूप-रस-गन्ध-स्पर्श-संस्थानद्रव्यशक्तयः प्रसूतिविच्छित्तिध्रुवधर्माणः, उत्पत्ति-व्यय-ध्रौव्यरूपत्वा(रूपा)त्मिका इत्यर्थः। तस्माद विनाभावात् उत्पत्तिमत्त्वादविनाशित्वा त्व)मव्यभिचारीति ॥२४१७।।
__एतदेव विस्तरतो भाव्यते । इध पिण्डो 'पिण्डागारसत्तिपज्जायविलयसमकालं । उप्पज्जति कुम्भागारसत्तिपज्जायरूवेणं ॥२४१९||
इध पिण्डो पिण्डागार इत्यादि । घटस्योत्पत्तिमत्त्वादिति यदुच्यते सा का घटोत्पत्तिः ? ननु पिण्डो विनश्यति घटश्चोत्पद्यत इति । तत्रापि पिण्डस्य न सर्वात्मना विलयः, न च घटस्य सर्वात्मनोत्पादः । किं तर्हि ? पिण्डः पिण्डाकारशक्तिपर्यायविलयसमकालं कुम्भाकारशक्तिपर्यायरूपेणोत्पद्यते इति घटोत्पत्तिरुच्यते ॥२४१९ ।
यस्मातरूवातिदव्बताए [१५९-द्वि०]ण जाति ण य वेति तेण सो णिच्चो । एवं उप्पातव्वयधुवस्सभावं मतं सव्वं ॥२४२०॥
ख्वातिदन्वताए । यस्माद्रूपरसगन्धस्पर्शमृव्यस्वरूपेण नोत्पद्यते, पूर्वोत्पन्नत्वात्, नापि व्येति, तेनात्मना तस्य सर्वदोपलब्धेरनपायित्वात् , तस्मात्तेन रूपेण नित्यम् । यथा च कुम्भः एवमुत्पादव्ययध्रुवस्वभावं सर्वमेव वस्तु । यथा वाऽचेतने वस्तुनि भावनैषा एवं चेतनेऽपि नित्यत्वाभिमते आत्मनीति ॥२४२०॥
घडचेतणया णासो पडचेतणया समुन्भवो समयं । संताणावत्था तधेहपरलोगजीवाणं ॥२४२१॥
घडचेतणया णासो इत्यादि । घटचेतना घटविज्ञानम् , पटचेतना च पटविज्ञानम् । यदा घटविज्ञानानन्तरं पटविज्ञानोत्पत्तिस्तदेवं भावना-घरचेतनया जीवस्य नाशः, पटचेतनया समुद्भवः, समकमेव जीवसन्तानेनावस्थानं ध्रुवत्वम् । तथैव परलोकजीवानाम् ॥२४२१॥
१ पिंडो को । २ पिंडा को। ३ कुंभा हे । ३ ति कुंभाइरू त । ४ स्वाई हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org