________________
नि० ४७९)
परलोकसिद्धिः।
इधलोगातो य परो सोम्म ! सुरा णारगा य परलोगो । पडिवज्ज मोरियाकंपिये व विहितप्पमाणातो ॥२४१३॥
इथलोगातो य इत्यादि । इहलोकात् परलोकः सुरनारकाः । ते च प्रमाणैः प्रतिपादिता मौर्याकम्पितवक्तव्यताद्वये । तदिहापि सर्व योज्यमित्यादि ।।२४१३॥
अपि च--- जीवो विण्णाणमयो त चाणिच्चे ति तो ण परलोगो । अध विण्णाणादण्णो तो अणभिण्णो जधागासं ॥२४१४॥
जीवो विण्णाणमयो । जीवो विज्ञानमयः । तच्च विज्ञानमनित्यम् । अनित्यत्वात् गमनं नास्ति । ततः परलोकाभावः । अथासो विज्ञः नादनित्यादन्यः स्वयं नित्यः । अभिन्नादन्योऽनभिन्नः । द्विप्रतिपेधः प्रकृतिं गमयति- अनभिन्नो भिन्न एव । नित्यत्वाच्चाकाशवत् न कचिद् गच्छति । ततोऽपि परलोकाभावः ॥२४१४॥
एत्तो च्चिय ण स कत्ता भोत्ता य अतो वि णत्थि परलोगो । जं च ण संसारी सो अण्णाणामुत्तितो खं च ॥२४१५॥
एत्तो गाहा । नित्यत्वादेव च न कर्त्ता न भोक्ता, आकाशवत् । न चासौ संसारी, अज्ञत्वादमूर्तत्वाच्च, आकाशवत् ॥२४१५॥
एवमभिहिते पूर्वपक्षे उत्तरमाह - मण्णसि विणासि चेतो उप्पत्तिमदादितो जधा कुंभो । णणु एतं' चिय साधणमविणासित्ते वि से सोम्म ! ॥२४१६॥
मण्णसि गाहा । विनाशित्वे चेतनाया[:] कोपपत्तिः ! इति . भवतोऽभिप्रायः । चेतो विनाशि, उत्पत्ति-विगमवत्त्वात् कुम्भवत् । नन्वयमेव हेतुनित्यत्वे हे सौम्य कौण्डिन्य मेतार्य ! धर्मस्वरूपनिराकरणोऽयं विरुद्धः, साध्यधर्मविकलश्च दृष्टान्तः, कुम्भस्यापि नित्यत्वात् ॥२४१६॥
अथवा वत्युत्तणतो विणासि चेतो ण होति कुम्भो व्य । उप्पत्तिमतातित्ते कधमविणासी घडो बुद्धी ॥२४१७॥
अधवा गाहा । अथवा प्रतिप्रमाणे विरुद्धाव्यभिचारी हेतुः । अविनाशि चेतः वस्तुत्वात् कुम्भवत् । ननु चोत्पत्तिमत्त्वमनित्यत्वानुगतं कथमविनाशित्वं चेतसो घटस्य वाऽऽपादयति ! इति इयं बुद्धिः, भवतोऽयमभिप्रायः, इयमाशङ्केति यावत् ॥२४१७॥
१ पिउ को हे। 'पिओ त । २ °च्चन्ति को । ३ इत्तो को हे। ४ व को हे त। ५ कुम्भो को । ६ एवं त । ७ कुभो हे । ८ 'मदादित्ते हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org