________________
विशेषावश्यकभाष्ये
[नि० ४६७चानुग्रहश्च कन्दर्पश्चेति द्वन्दः-नरगणानां पीडानुग्रहकन्दर्पाः । आदिग्रहणात् कौतुकलौल्यादीनि । तेभ्यो वा कारणेभ्यः केचिदागच्छेयुरिति सम्बन्धनीयम् ॥२३३२॥
अथ देवास्तित्वानुमानप्रतिपादनोपपत्तिसमूहप्रदर्शनाय गाथायुगलम्जातिस्सरकवणातो कासइ पच्चक्खदरिसणातो य । विज्जामंतोवायणसिद्धीतो गहविकारातो ॥२३३३॥ उक्किहपुण्णसंचयफलभावातोभिधाणसिद्धीतो। [१६४-०]सव्वागमसिद्धीतो य सन्ति देव त्ति सद्धेयं ॥२३३४॥ .
जातिस्सरकधणातो इत्यादि । उक्किटपुण्णसंचय० इत्यादि । सन्ति देवा इति श्रद्धेयमेतद्वाक्यमिति अन्तदीपकं प्रतिज्ञावचनम् , जातिस्मरकथनादयोऽर्थ(त्र) हेतवः । क्रमेण यथायोगं अत्र 'प्रतिज्ञा हेतू विरचय्य दृष्टान्ता अनूध प्रयोगा वक्तव्याः । अत उच्यते-सन्ति देवा इति श्रद्धेयमेतत्, जातिस्मरा दिप्रत्ययितपुरुषकथितत्वात् , नानादेशविचारिप्रत्ययितदृष्टकथितालक्षितमत्स्यमनुजनगरदेवदेवकुलादिसद्भाववाक्यवत् । तथा कस्यचित्तपःप्रभावादिमतः प्रत्यक्षेण दृष्टत्वात् सिद्धादेशफलवत् । तथा विद्यामन्त्रोपयाचनसिद्धेः फलेनानुमितत्वात, राजादिप्रसादीकृतफलदर्शनानुमितराजादिसम्भववत् । तथा ग्रह विकारादिति प्रयोगः- अस्त्ययं ग्रहाधिष्ठितपुरुषः तज्जोकव्यतिरिक्तादृश्याधिष्ठातृकः, पुरुषाऽसम्भाव्यक्रियाविकारित्वात् , यन्त्रयतिरिक्ततक्रिया कारिपुरुषवत् ।
द्वितीयगाथायाः प्रयोगवाक्यम्-दानदमदयादि क्रियासंचितोत्कृष्टपुण्यसञ्चयफलं विशिष्टमाहात्म्यभोक्तृकं, फलत्वात् राज्यादिफलवत् । विशिष्ट माहात्म्याश्च भोक्तारः पुण्यसञ्चयफलस्य सन्ति देवा इति प्रमाणफलम् । तथा देवा इत्यभिधानसिद्धेरनुमानमनन्तरगाथायां व्यक्तीकरिष्यते । ततश्च न सन्ति देवा इत्यनुमानविरोधः । सर्वागमसिद्रितश्च देवसद्भावात् न सन्ति देवा इत्यागमविरोधः । ते चागमा वेदवादिनः श्रुतिस्मृतिसंवादिनः सांख्यवैशेपिकादयः प्रमाणम् ॥२३३३-३४॥
तथाभिधानसिद्धेरित्यस्य गाथावयवस्य प्रसङ्गःदेव त्ति सत्थयमितं सुद्धत्तणतो घडाभिधाणं व । अधव मती मणुओ च्चिय देवो गुणरिद्धिसंपण्णो ॥२३३५॥
१ तोपाय त । २ विगार' को हे । ३ 'सिद्धीउ हे । ५ संति को हे । ५ करणा इति प्रतौ । ६ प्रयोगहे-'इति प्रतौ । ७ प्रयोगोस्यायं-इति प्रतौ । ८ मिदं को है।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org