________________
नि० ४६७
देवसिद्धिः । देव त्ति सत्थयमित इत्यादि । देवा इतीदं पदं धर्मि । सार्थकमिति साध्यधर्मः । शुद्धत्वादिति हेतुः । समासतद्धितवृत्तिविरहाच्छुद्धपदत्वं हेतुः पक्षधर्मः । घटाभिधानवदिति साधर्म्यदृष्टान्तः । ततश्च देवशब्दः स्वर्गनिवासिविशिष्टपुण्यफलभोजिजीवार्थेन सार्थक इति । एतावता न सिध्यतीत्याशङ्कां परकीयामुत्प्रेक्ष्याचार्य एवाभीप्टार्थसिद्धसाधनाभिप्रायेण परवचनमुपन्यस्यति-अथवा भवतो बुद्धिः-दिवु क्रीडाविजिगीषाव्यवहारयुतिस्तुतिगतिपु, दीव्यतीति देवः प्रतिविशिष्टैश्वर्यक्रीडादिगुणर्द्धिसम्पन्नः कश्चिन् मनुज एव राजादिदेवशब्दाभिधेयोऽस्तीति तेन सार्थकत्वात् देवशब्दस्य सिद्धसाधनमिति प्रमाणफलाभावात् असाधनमिद मिति ॥२३३५।।
तप्रतिविधानाय सविशेषणसाध्यधर्मोपन्याससूचनी गाथातं ण यतो तच्चत्थे सिद्धे उपयारतो मता सिद्धी । तच्चत्थसिंह सिद्ध माणवे सिंघोवयारो व ॥२३३६।।
तंण यतो तच्चत्थे इत्यादि । सत्यम् , राजादयः क्रीडादिगुणदर्शनादेवा उच्यन्ते । अन्यांस्तथ्यार्थपरमार्थे वयद्युतिक्रीडागुणातिशययुक्ताम(न)भिसमीक्ष्य किश्चित् साधा त्] देवा इव राजादय उपचारात् । यथा परमार्थसिंहे सिद्धे शौर्यक्रौर्यगुणमभिसमीक्ष्य तत्साधान् मनुजेऽपि कस्मिंश्चित् सिंहशब्दो लोकेन प्रयुज्यते, तयेहापि तथ्यार्थ सिने परमार्थदेवे औपचारिक राजादिषु देव-वमिति । अनुपचरितविज्ञानमात्रं व्यतिरिच्य बाह्यार्थनाऽर्थवान् देवशब्द इति सविशेषणसाध्यधर्मत्वान्न सिद्ध. साधनम् । अथवाऽन्यदेव प्रमाणं-मुख्येनार्थनार्थवान् देवशब्दः, न तुल्ये कचित् , उपचर्यमाणत्वात् शौर्यादिगुणयोगात् माणवके सिंहशब्दवत् ॥२३३६।।
न सन्ति देवा इति प्रतिज्ञायाः परस्याभ्युपगमविरोधं दर्शयन्नाहदेवाभावे वे फलं जमग्गिहोत्तादियाण किरियाण । सग्गीय जण्णाण य दाणातिफलं च तदयुत्तं ॥२३३७।। जम-सोम-सूर-सुरगुरुसारज्जादीणि जयति जंण्णेहि । मंतावाहणमेव य इन्दादीणं विधा सव्वं ॥२३३८।।
देवाभावे वै फलमित्यादि । जम-सोम इत्यादि च गाथायुगलं देवाभावे वा देवनास्तित्वप्रतिज्ञायाम् । वाशब्दः पूर्वविकल्पान्तरप्रदर्शनार्थः । “अग्निहोत्रं जुहुयात्
१ मिदं-इति प्रतौ। न जओ त को । न जर त हे । ३ सीह को हे त। ४ वसीहोव' को हे त । '५ विफल हे त। बि फल को। ६ 'याणं हे को। ७ 'ग्गीयज' को। ८ दजुत्त को हे । ५. जण्णेहिं को हे। १. इंदा' को हे। ११ चार्फइति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org