________________
नि० ४६७]
देवसिद्धिः। संकंवदित्वपेम्मा इत्यादि । इह नागच्छन्ति सुरगणाः, संक्रान्तदिव्यप्रेमत्वात् , विषयप्रसक्तत्वात्, प्रकृष्टरूपगुणा(ण)विज्ञानस्त्रीप्रसक्तविशिष्टदेशान्तरगतमनुष्यवत् । असमाप्तकर्तव्यत्वात् , बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत् । अनधीनमनुजकार्यत्वान्नारकवत् । अभ्युपगता मोक्षस्य सिद्धवत् । द्वीपान्तरस्थतिर्यगादिवत् । मनुजैः कार्य मनुजकार्य अनधीनं मनुजकार्य येषां ते अनधीनमनु जकार्या इति समानाधिकरणपदो बहुवीहिः-मनुजानधीनकार्यत्वादित्यर्थः । एवमशुभत्वान्नरभवस्य, तद्गन्धाऽसहिष्णुतया 'सुरा' सुरगणा नागच्छन्ति, कडेवरमिव हंसाः ॥२३३०॥
अथ कादाचि काऽऽगमनकारणनिरूपणाय गाथाणवरि जिणजम्म-दिक्खा केवल-णेव्वाणमहणियोगेणं । भत्तीय सोम्म ! संसयवोच्छेतत्थं व एज गहुँ ॥२३३१॥
‘णवरि जिण० इत्यादि । नवरमिति निपातसंघातो रूढिशब्दः सम्भावनायामर्थे । बहून्यनागमनकारणानि, नवरं सम्भाव्यताऽऽगमनं भगवदहद्भक्त्या सुरेन्द्राणां तदनुवृत्त्यधीनतया जिनानां जन्ममहनियोगेन लोकस्थित्यनुभावप्रवर्तितेन । तथा जिनानामेव दीक्षामहनियोगेन । एवं केवलमह-निर्वाणमहनियोगेनेति । जिनशब्दो महशब्दश्च प्रत्येकं सम्बन्धनीयाः(यः)। सौम्येत्यामन्त्रणं मौर्यपुत्रस्य । मतिश्रुतावधिज्ञानत्रयसम्बन्धिनां तेषु जीवादिपदार्थविचारेषु ज्ञानावरणोदय-दर्शनमोहनीयोदयवशात् संशय उत्पन्ने संशयव्यवच्छेदार्थ वा केवलमनःपर्यायावधिप्रकृष्टातिशयश्रुतज्ञानसम्पन्नानगारसमीपमागच्छेयुरिति आशंसायां सम्भावनायां लिट् ॥२३३१॥
अथवा कश्चित् पुरुषविशेष तिर्यञ्चं नारकं वा प्रतीत्यपुव्वाणुरागतो वा समयणिवेन्धा तवोगुणातो वा । णरगणपीडाणुग्गहकंदप्पादीहि वा केयि ॥२३३२।।
पुवाणुरागतो वा इत्यादि । पूर्वस्मिन् भवे रागः प्रीतिः पूर्वानुरागः, तस्माद्वा कारणात् पूर्वानुरागवशतः । 'समयः' संकेतः. तेन निबन्धनं निबन्धः व्यवस्था समयनिबन्ध उच्यते । सोऽपि पूर्वभव एवेति पूर्वशब्दोऽनुकृप्यते । पूर्वसमयनिबन्धनात् कारणात् । तपसो गुणः प्रभावः तपःप्रभावाद्वा समाकृष्टा आगच्छेयुः । पीडा
१ मा ग' इति प्रतौ । २ तिर्युगा इति प्रतौ । ३ °ल-निव्वा को हे। ५ भत्ती, को, भत्तीए हे। '५ 'यविच्छे को हेत। ६ स्थं च एजण्हु त । ७ एजण्हा को, एजहण्हा हे । ८ णवर जिणस्स इति प्रतौ । ९ °बद्धा जे । १० रगुण त । ११ पाईहिं को हे। १२ केई को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org