________________
४१०
विशेषावश्यकभाष्ये
[नि०४६३
अस्थि गाहा। अस्ति हि लोकपरिमाणकारी, प्रमेयत्वात् , ज्ञेयज्ञानवत् । अथ. वात्मानः पुद्गलाश्च लोकोऽभिधीयते । तस्य परिमाणकार्यस्ति, प्रमेयत्वात्, स्थालिप्रस्थवत् । यश्चास्य परिमाता स धर्मास्तिकायः । स चावश्यमलोकास्तित्वे युक्त इति ॥२३
पैडणं पसत्तमेवं थाणातो तं च णो जतो छट्ठी । इध कत्तिलक्ख[१५२-द्वि०]णेयं कत्तुरणत्यंतरं थाणं ॥२३११॥
पडणं गाहा । आह-पतनधर्मा युक्तः, स्थानात, फलवत् । उच्यते -न, षष्ट्याः कर्तृलक्षणत्वादिह मुक्तस्थानमिति मुक्तोऽवतिष्ठत इत्युक्तं भवति । न तदर्थान्तरस्थानपरिकल्पनमिष्टम् ।।२३११॥
णभणिच्चत्तणओ वा थाणविणासपतणं ण जुत्तं से । तध कम्माभावातो पुणक्कियाऽभावतो वा वि ।।२३१२॥
णभ० गाहा । तदर्थान्तरस्थानतायामपि चाऽऽकाशनियावान्न पतनमनुरूपम् । कर्म चात्मनः क्रियाकारणम् । अकर्मा चासाविति न तद्धर्मा । न चास्य पूर्वप्रयोगादिकियाहेतुभिावसितप्रयोजनवाद भूयः : यननोदनाऽऽकर्षणगुरुत्वादिक्रियाकारणमस्ति यतः पतेत् ।।२३१२॥ णिच्चत्थाणातो वा बोमातीणं पडणं पसज्जेज्जा। अध ण मतमणेगंतो' थाणातोऽवस्सपतणं ति ॥२३१३।।
णिच्च० गाहा । किञ्च स्थानात् पतनमिति विरुद्धमुच्यते । युक्तं तावदवस्थानात् पतनम्-एवं च नित्यस्थानादाकाशादीनां नित्यं पतनप्रसङ्गः । न चेत्, अने. कान्तः स्थानात् पतनमिति ॥२३१३॥
भवतो सिद्धो त्ति मती तेणातिमसिद्धसंभवो जुत्तो। कालाणातित्तणतो पढमसरीरं व तदजुत्तं २३१४॥
__ भवतो गाहा । स्यान्मतिः-यतो भवात् सिद्धिप्रसूति रतोऽवस्यमादिमत्वात् सर्वसिद्धानामादिमत्त्वसम्भूतिरन्वेषितव्या । तच्च न, अनादित्वात् कालस्यादिशरीरवत् । यथेह सर्वशरीराणामादिमत्त्वम् , अथवाऽनादित्वात्कालस्याऽनादिशरीरमस्ति, तद्वदादिसिद्ध इति ।।२३१४॥ परिमितदेसेऽणंता किध माता मुत्तिविरहितत्तातो। "णेयम्मि व णाणाई दिट्ठीओ वेगवम्मि ॥२३१५।।
१ 'त्वाच्छालि' इति प्रतौ ।२ पयणं को हे। ३ तं न उ ज त। १ युक्तो-इति प्रतौ । ५ ज्ज जे । ६ गता हे को। ७ पडणं त को हे। ८° नामादिसर्वस' इति प्रती । ९ तवृत्ततच्च-इति प्रतौ । १० मादिसव्वमथ” इति प्रतौ । ११ णिय हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org