________________
नि० ४६३]
बन्ध-मोक्षसिद्धिः।
लोगस्स गाहा । स्यात्-कथं पुनरिदमनुमीयते-अस्त्यलोक इति ? उच्यतेविपक्षमा(वा)न् लोको व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् । इह यद्वयुत्पत्तिमता शुद्ध पदेनाभिधीयते तद्विपक्षो दृष्टो यथा घटस्याघटः । यश्च लोकस्य विपक्षः सोऽलोकः । तस्मादस्त्यलोक इति । स्यान्मतिः-न लोकोऽलोक इति । स घटादीनामेवान्यतमो भविष्यति । किमिह तद्वस्वन्तरपरिकल्पनया ? तच्च न, यतो निषेधसद्भावान्निपेध्य. स्यैवाने नानुरूपेण भवितव्यम् । निषेध्यश्च लोकः । स चाकाशविशेषो जीवादिद्रव्य भाजनम् । अतः खवलोके नाप्याकाशविशेपेणैव भवितव्यम् । यहापण्डित इत्युक्ते विशिष्टज्ञानविकलचेतन एव गम्यते, न घटादिरचेतनः । तद्वदलोकेनापि टोकानुरुपेणेति । यस्मादाह
"नयुक्तमिवयुक्तं वा यदि कार्य विधीयते ।
तुल्याधिकरणेऽन्यस्मिन् लोकेऽप्यर्थगतिस्तथा ॥" ॥२३०६॥ तम्हा धम्माऽधम्मा लोगपरिच्छेतकारिणो जुत्ता। इधराऽऽगासे तुल्ले लोगो'ऽलोगो ति को भेतो ? ॥२३०७॥
तम्हा गाहा । तस्मादलोकास्तित्वादवयं धर्माऽधर्माभ्यां तपरिच्छेदकारियों भवितव्यम् । अन्यथाऽऽकाशसामान्ये सति लोकोऽलोक इति विशेपो न स्यात ॥२३०७॥
लोगविभागाभावे पडिघाताभावतोऽणवत्थातो । संववहाराभावो संबंधाऽभावतो होज्जा ॥२३०८॥
लोग० गाहा । यदि हि धर्माधर्माभ्यां लोकविभागो न स्यात् , अतः खल्ववि शिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानां च प्रतिघाताऽभावादनवस्थानम् । अतः सम्बन्धाभावात् सुखदुःखसम्बन्धमोक्षसंसारप्रक्रियासंव्यवहारो न स्यात् ॥२३०८।। णिरणुग्गहत्तणातो ण गती परतो जलादिव झसस्स । जो गमणाणुग्गहिता सो धम्मो लोगपरिमाणो ॥२३०९।।
णिर० गाहा । अतो न लोक विभागपरस्ताद्गतिरात्मनः, निरनुग्रहत्वात् , मत्स्यस्येव जलात् परतः । यश्च गमनानुगृ(ग्रहीता स धर्मास्तिकायो लोकतुल्यमानोऽभिहितः ॥२३०९॥
अत्थिं परिमाणकारी लोगस्स पमेयभावतोवस्सं । णाणं पिव णेयस्साऽलोगत्थित्ते य सोऽवस्सं ॥२३१०॥ १ लोगालो त । २ 'मन्तः इति प्रतौ । ३ °हितो जे। ४ अत्थ त।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org