SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ४०६ विशेषावश्यकभाष्ये [नि० ४६३किं पुण गाहा । किं पुनर्यदा च यत्र च या सम्पत्तिरसौ योग्यस्यैव, नायोग्यस्य । तद्वत् यदा च यत्र च या सिद्धिरसौ भव्यराशेरिति ॥२२९१।। कतकादिमत्तणातो मोक्खो णिच्चो ण होति कुंभो छ । णो पद्धंसाभावो भुवि तद्धम्मा वि जं णिच्चो ।।२२९२॥ कत० गाहा । आह-अनित्यो मोक्षः, कृतकत्वात्, प्रयत्नानन्तरीयकत्वाच्च, घटवत् । उच्यते-कृतकाद्यनित्यमिति नायमेकान्तः, विपक्षेऽपि दर्शनात्-इह यस्माद् घटादिप्रध्वंसाभावः कृतकादिस्वभावोऽपि सन्नित्यः प्रतीयते ॥२२९२॥ अणुदाहरणमभावो एसो वि मती ण त जतो णियतं'। . कुम्भविणासविसिट्ठो भावो चिय पोग्गलमयो ये ॥२२९३।। अणु० गाहा । स्यान्मतिः-अनुदाहरणमिदमभावत्वात्, खरविषाणवत् । तच्च न, यतो भाव एवासौ घटपर्यायोपरतिमात्रेविशिष्टः, पुद्गलमयत्वात् ॥२२९३॥ किं वेगतेण कतं पोग्गलमेतविलयम्मि जीवस्स । किं णिवत्तितमधियं णभसो घडमेतविलयम्मि ॥२२९४॥ किं वेगं० गाहा । इहात्म-कर्मपुद्गलवियोगो मोक्षोऽभिप्रेतः । तत्र किमेकान्तेनात्मनो निर्वर्त्यते यत् कृतकत्वादनित्यत्वाभिप्रायः स्यात् ? नन्वयमेवात्मकर्मविभागो निर्वय॑ते, द्विष्टश्चायम् । अतः कर्मणोऽनित्यत्वादनित्य इति । तच्च न, यतो न हि घटमात्रविलये सति आकाशविनाशः, घटाकाशविनाश(घटविनाशे आकाश)विभागाऽभावात् । आकाशविभागाऽभावेऽपि सुतरां कपालाकाशसंयोगोऽविनिवृत्त एव तद्वदात्म-कर्म विभागाभावेऽपि कर्मपुद्गलसंयोगाविनिवृत्तिः, तल्लोकव्याप्तेः, तच्च न। ॥२२९४॥ यतः सोऽणवराधो व्व पुणो ण बज्झते बंधकारणाभावा । जोगो य बंधहेतू ण य सो तस्सासरीरो ति ॥२२९५॥ सो गाहा । तत् पुद्गलसंयोगेपि नासौ बध्यते, बन्धकारणाऽभावादनपराधपुरुषवत् । योगत्रयं च बन्धहेतुरभिधीयते । न च तत्तस्य, अशरीरत्वात् ,अतो न बध्यते । विशिष्टश्चेह बन्धनामकर्मप्रत्ययो बन्धोऽधिक्रियते, न कर्मयोग्यपुद्गलसंयोगमात्रम् ॥२२९५॥ ण पुणो तस्स पसूति बीजाभावादिहंकुरस्सेव । बीयं च तस्स कम्मं ण य तस्स तयं [१५१-द्वि०] ततो णिच्चो ॥२२९६॥ १ नियओ को हे त । २ योयं जे को। ३ माच्च वि इति प्रतौ । ४ तच्च यतो इति प्रतौ । ५ जोगा को। ६ यते त को हे। ७ गोपिइति प्रतौ। ८ कारिणोइति प्रतौ। For Personal and Private Use Only www.jainelibrary.org Jain Educationa International
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy