________________
विशेषावश्यकभाष्ये
[नि०४५९___ अध गाहा । अथ वस्तुनो धर्मः स्वभावः, तथाप्यसौ यद्यात्मधर्मो विज्ञानादिवत्, न स शरीरकारणम्, अमूर्त्तत्वादाकाशवत् । अथ मूर्तिमद्धर्मः, न पुद्गलपर्यायमतिवर्त्तते । कर्मापि हि पुद्गलपर्यायानन्यरूपमेवेत्यविप्रतिपत्तिः । न च वस्तुनो धर्मः सदैव समानरूपोऽस्ति, स्थित्युत्पत्तिप्रलयपरिणामात्मकत्वाद्वस्तुनः' - ॥२२४७॥
कम्मस्स वि परिणामो सुधम्म ! धम्मो स पोग्गलमयस्स । हेतू चित्तो जगतो होति सभावो ति[१४७-द्वि०को दोसो ॥२२४८॥
कम्म० गाहा । अथवा कर्मापि पुद्गलपरिणामधर्म एव जगतः शरीरादिहेतुः स्वभाव इति को दोषः ? स च विचित्रात्मा, पुद्गलपरिणामत्वादेवाभ्रादिविकारवत् । कुतोऽस्य नित्यं समानरूपता ! ॥२२४८॥ -
अधवा सव्वं वत्थु पतिक्षणं चिय मुधम्म! धम्महि । संभवति वेति केहि ये केहि य तदवत्थमच्चंतं ॥२२४९॥
अधवा गाहा । अथवा सौम्य सर्वमेव हि वस्तु प्रतिक्षणमुत्पद्यते पूर्वपर्यायसमानपर्यायैः कैश्चिच्चापरपर्यायसमानाऽसमानरुपरमति, कैश्चित्तदवस्थमेवास्ते ॥२२४९॥
तं अप्पणो वि सरिसं ण पुव्वधम्मेहि पच्छिमिल्लाणं । । सकलस्स तिभुवणस्स ये सरिसं सामण्णधम्मेहिं ॥२२५०॥
तं गाहा । तदात्मनोऽपि न पूर्वापरपर्यायैः सर्वथा समानमसमानं वा, समानासमानत्वात् । तथा भुवनत्रयस्यापि सामान्यविशेषपर्यायैः समानमसमानं वा ॥२२५०॥ अतः · को सब्वधेव सरिसोऽसरिसो वा इधभवे परभवे वा । सरिसासरिसं सव्वं णिच्चाणिच्चातिरुवं च ॥२२५१॥
को गाहा । को हि केन सर्वथैव समानोऽसमानो वेह परत्र वा । यदीहैव कश्चित् स्वेनान्येन वा सर्वथा समानः स्यात्, परलोकेऽप्यनुमीयेत । न चासावस्ति, यतः सर्वमेवेदं समानासमानं नित्यानित्यादिरूपं च ॥२२५१॥
जह णियएहिं वि सरिसो ण जुवा भुवि बालवुड्ढधम्महि । जगतो ये समो सत्तादिएहि तप परभवे जीवो ॥२२५२॥
केहि वि केहि वि त को है। २ व त । ३ 'सो अस हे । ४ सो इधत । ५ 'मानादिह-इति प्रतौ । ६ वि त को हे। .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org