________________
नि० ४५९] गणधरवादे परलोके सर्वथासदृशभावनिषेधः । ३९७
उवकरणाभावातो ण य भवति सुधम्म ! सो अमुत्तो 'वि । कज्जस्स मुत्तिमत्ता सुहसंवित्तातितो चेव ॥२२४५।।
सो मुत्तो गाहा, [उवकरणा० गाहा । स च मूर्तिमानमूत्तों वा ? यदि मूर्तिमान् । अस्य कर्मणश्च को विशेषः ? कमव संज्ञामात्रविशिष्टं तत् । न चासौ सर्वदेवाविलक्षणः, मूर्तिमत्त्वादभ्रादिविकारवत् । अथ अमूर्तः, नारम्भको देहादीनाम्, अनुपकरणत्वाद्दण्डादिविकलकुलालवत् । स्यान्मतिः-नन्वसावेवोपकरणं कर्तुरात्मनः । नोपकरणस्यापि उपकरणं चिन्त्यते । तथापि नासावुपकरणमात्मनः समवायोटं शरीर'निर्वृत्तौ, [शरीरस्य मूर्त्तत्वात् । न हि मूर्तिमतोऽमृति[मत्] समवायिकारणमिष्टम् । स्यात्-ननु शरीरस्य पुदगला एव समवायिकारणम्, आत्मा च स्वभावोपकरणसाचि. व्यात् कर्तेति । तच्च न, यस्मादात्मस्वभावयोन शरीरपुद्गलादानमस्ति, अमूर्त्तत्वात् । अतो मूर्तिमतोपकरणेन भवितव्यम् , तत्समवायिना च । न च तदानादि पुद्गलसन्तानादिमयं कर्मान्तरेण सम्भाव्यते । ननु तद्ग्रहणेऽप्येतत् समम्, आत्मनोऽमूर्तत्वात् । अथवाऽयमात्मा सत्य[प्य]मूतत्वे कर्मणः समादांता, तद्वदमूर्तस्वभावो. पकरणसमेतः शरीरस्येति को दोषः ? उच्यते-नैवायं मूर्तिविकलः समादत्ते । ननूक्तम्अनादिकर्मसन्तानोपनिबन्धन एवायम् । न च कामर्णमाध्यात्मिकं शरीरमननुविश्य बाह्यशरीरनिवृत्तिरनुरूपेति समवायिकारणभावोऽस्यावसीयते । न चासावमूर्तस्वभावः, कार्यस्य मूर्तिमत्त्वाच्छरीरस्य। तथा सुखसंवित्तेरियादितः ॥२२४४-४५।।
अधयाऽकारणतो च्चिय सभावतो तो 'वि सरिसता कत्तो । किमकारणतो ण भवे विसरिसता किं व विच्छित्ती ॥२२४६॥
अधवा गाहा । अथवाऽकारणत एव स्वभावत इति भवदभिप्रायः । तत्र वयं ब्रूमः-नाकस्मिकं शरीरम्, आदिमत्प्रतिनियताकारत्वात् , घटवत् । वैधय॒णाभ्रादिविकारवत् । प्रतिनियताकारत्वादेव चोपकरणसमेतकर्तृकम्, घटवत् । न च कर्मणोऽन्यदुपकरणं सम्भाव्यते । अथवा नाकस्मादुत्पत्तिरिष्यते, स्वरविषाणाद्यभावप्रसूतिप्रसङ्गात् । अकारणप्रसूतस्य वा कुतः सादृश्यम् ? अकस्मादेवासादृश्यं कुतो न भवेदुच्छेदो वेति ! ॥२२४६।।
अध "वि सभावो धम्मो वत्थुस्स ण सो वि सरिसओ णिच्चं । उप्पातै द्वितिभंगा चित्ता ज वत्थुपज्जाया ॥२२४७।।
१ ति जे । २ भावो-इति प्रतो। नामा इति प्रतौ। ३ नि इति प्रती । ४ तद्-कर्म । ५ णः मा इति प्रती । ६ भावास्य-इति प्रतौ । 0 °णउ को हे । ८ व जे । ९ किंचि वि त । १० अहव को हे त । ११ उप्पाया को ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org