________________
३९६ विशेषावश्यकभाष्ये
[नि० ४५९कम्माभावे वि मती को दोसो होज्ज जति सभावोऽयं । जध कारणाणुरूवं घडातिकज्ज सभावेणं ।।२२४०॥
कम्मा० गाहा । आह-यदि कर्माभावेऽपि भवसद्भावः स्वभावत एव स्यात्, को दोपः ?, यथेह कर्मान्तरेण कारणानुरूपं घटादिकार्य स्वभावतोऽभिलक्ष्यते । उच्यते-ननु घटोऽपि न स्वभावतः । कुतः ? कर्तृकरणसद्भावात् । इहापि कर्तरात्मनः कार्यस्य च शरीरादेरवस्यं करणमपि सम्भावनीयम् । अपि च प्रतिज्ञेयम्-आत्म शरीराभ्यां अर्थान्तरं करणमनुमीयते, कर्तृकार्यसद्भावात् , कुलालघटसद्भावे दण्डादिवत् । यच्चात्मनः शरीरादिकार्यनिर्वृत्तौ का(क)रणभावमनुभवति तत् कर्मति 'प्रतिपद्यस्व । स्यात्-स्वभावतः शरीरादिप्रसूतिः, अभ्रादिविकारवत् । न, आदिमत्प्रतिनियताकारत्वाद, घटवत् । सादृश्यप्रतिज्ञानं च हीयते, अभ्रादिविकाराणां अणुस्कन्ध. कारणद्रव्येभ्योऽतिविलक्षणत्वात् ॥२२४०॥ होज्ज सभावो वत्थु णिक्कारणता व वत्थु[१४७-प्र०] धम्मो वा । जति वत्थु णस्थि तओऽणुवलद्धीतो खपुप्फ व ॥२२४१।। ___होज्ज गाहा। किञ्च, योऽयं स्वभावो नामाभिप्रेतः, स वस्तुविशेषः, कारणता, वस्तुधर्मो वाऽभ्युपगम्येत । सर्वथा च दोपः । यदि वस्तुविशेषः, स नास्ति, सर्वप्रमाणगोचरालीतत्वात्, खपुष्पवत् ॥२२४१।।
अच्चतमणुवलद्धो वि अध तो अस्थि णत्थि किं कम्मं । हेतू व तदत्थित्ते जो णणु कम्मस्स वि स एव ॥२२४२॥
__ अच्चंत० गाहा । अथासावत्यन्तमनुपलभ्यमानोऽप्यस्ति । कर्म किमिति नास्ति ? स्वभावाऽस्तित्वे वा यो हेतुः, स कर्मण्यपि समानः ॥२२४२॥
कम्मरस वाऽभिधाणं होज्ज सभाको त्ति होतु को दोसो । णिच्चं व सो सभावो सरिसो एत्थं च को हेतू ।।२२४३।।
कम्म० गाहा । अथवा कर्मणोऽभिधानं स्वभाव इति तन्नामास्तु, न संज्ञामात्रे विप्रतिपत्तिः । सर्वदा चासावेकलक्षण इत्यत्र को हेतुः ? स्वभाव एवेति चेद् । विलक्षणतायामप्येतत् समानम् ॥२२४३॥
सो मुत्तोऽमुत्तो वा जति मुत्तो तो ण सव्वहा सरिसो । परिणामतो पयं पिव ण देह हेतू जति अमुत्तो ॥२२४४॥
१ 'तियद्यस्य-इति प्रतौ । २ भावोऽस्ति - इति प्रतौ। ३ णं हेतु स जे। ण हुन त । ५ इत्थं त। मुत्तामु जे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org