________________
नि० ४५९]
गणधरवादे परलोके सर्वथासदृशभावनिषेधः ।
३९५
चित्ता कम्मपरिणती पोग्गलपरिणामतो जधा 'वज्झं(अभं)। कम्माण चित्तता पुण तद्धेतुविचित्तभावातो ॥२२३५।।
चित्ता गाहा । इतश्च विचित्रा कर्मणां परिणतिः, पुद्गलपरिणामत्वात् । इह यत् पुद्गलपरिणामात्मकं तद् विचित्रपरिणतिरूपं उपलक्ष्यते, यथाभ्रादिविकारः, पृथिव्यादिविकारो वा । यच्च न विचित्रपरिणतिरूपम्, न तत् पुद्गलपरिणामम्, यथाकाशम् । पुद्गलपरिणामसामान्येऽपि च कर्मणामावरणादिविशेषविचित्रता, तद्धेतुविचित्रत्वात् , दृष्टार्थक्रियाफलवत् । चित्राश्च तद्धेतवो मिथ्यादर्शनादयः, प्रदोषनिहवादयश्च ॥२२३५॥
अधवा इधभवसरिसो परलोगो वि जति सम्मतो तेणं । कम्मफलं वि इधभवसरिसं पडिवज्ज परलोगे ॥२२३६।।
_अधवा गाहा । अथवा यत एवेहलोकानुरूपं परलोकमपि प्रतिपद्यते भवान् , अत एव कर्मफल मपीहत्यकर्मफलवद्विचित्रं प्रतिपद्यतां परत्रेति ॥२२३६॥ किं भणितमि) मणुया णाणागतिकम्मकारिणो संति । जति ते तप्फलभाजो परे वि तो सरिसता जुत्ता ॥२२३७॥
किं भणित० गाहा । किमुक्तं भवति ? इह मनुजा नानागतिहेतुक्रियानुष्ठायिनो हि लक्ष्यन्ते । यदि हि तेऽमुत्रापि तक्रियाफलभाजो भवन्ति यथेहत्यक्रियाणाम्, अतः परलोकोऽपीहलोकानुरूपो युक्तः ।।२२३७।।
अध इध सफलं कम्मं ण परे तो सवधा ण सरिसत्तं । अकतागम-कतणासी कम्माभावोऽधवा पत्तो ॥२२३८॥
अध गाहा । अथेहलोकक्रियाणां साफल्यं प्रतिपद्यते, न पारलौकिकीनाम् । न नामेहलोकानुरूपः परलोकः सर्वथा, अकृताभ्यागम-कृतप्रणाशप्रसङ्गः, कर्माभावो वेति ॥२२३८॥
कम्माभावे "वि कतो भवंतरं सरिसता व तदभावे । णिकारणतो य भवो जति तो णासो वि तध चेव ॥२२३९॥
कम्माभा० गाहा । कर्माभावे वा भवान्तरमेव न सम्भाव्यते, कुतः साहश्यम् ! अथाकारण एव भवः । नन्वकारणमसादृश्यमपि तद्विनाशश्च ॥२२३९।।
१ वज्झा को हे। : २ ममाह इह-इति प्रतौ । ३ °मिह हे । " णासो जे । ५ य को त हे। ६ व जे त ।
५०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org