________________
नि० ४५५ ]
शून्यवादनिषेधः ।
३८५
जध गाहा । शून्यतावचनविज्ञानयोरपि चायं समानो विचार:- किमिह जातं जातमजातमिति यथा तथास्तु । यथा शून्यतावचनं तद्विज्ञानं च सर्वधा न जातं सर्वथा च [ना]जातमित्येवं भावजन्मापि भविष्यति ॥
अथ शून्यतावचनविज्ञानद्वयमजातमतः केन शून्यतोपलब्धा अभिहिता वेति शून्यतानुपपत्तिः || २१८२ ॥
जायति जातमजातं जाताजातमध जायमाणं च । कज्जमिह विक्खाए ण जायते सव्वधा किंचि ॥ २१८३ ॥
जायति गाहा । इह किञ्चिज्जातं जायते किञ्चिदजातम्, किञ्चिज्जाताजातम्, किञ्चिञ्जायमानम्, किञ्चित् सर्वथा न जायते, विवक्षातः ॥ २१८३॥ रूत्रित्ति जाति जातो कुंभो संठाणतो पुणरजातो । जाताजातो दोहि विं तस्समयं जायमाणो ति ॥ २१८४ ॥
रूविगाहा । यथेह घटो मृद्रपादिभिर्जात एव जायते तन्मयत्वात् । स एवाssकारविशेपेणा जातो जायते, प्रागभावात् । रूपादिभिराकार विशेषेण च [जाता]जातो जायते, तेभ्योऽनर्थान्तरत्वात् । अतीतानागतका ल्योर्विनष्टानुत्पन्नत्वात् क्रियानुपपत्तिर्वर्त्तमानमात्रसमय एव क्रियासद्भावाज्जायमानो जायते ॥२१८४॥
पुव्वकतो तु घडतया परपज्जाएहि तदुभएहिं च । जायंतो य पडतया ण जायते सव्वधा कुंभो ॥२९८५ ॥
पुव्व० गाहा । स एव हि पूर्वजातः सन्न जातो जायते, नाजातो - जायते, न जयमानो जायते, जातत्वात् । तथा परपर्यायैः पटादिभिरजातत्वात् सर्वथा न जायते खरविषाणवत् । तथोभयपर्यायैः पर ( ट ) पर्यायैव जाताजातत्वात् यावता जातस्तावता जातत्वाद्यावता चाऽजातस्तावताऽजातत्वात् सर्वथा न जायते जाताजातघटस्वरविषाणवत् । तथा जायमानोऽपि सर्वथा न जायते घटादिपर्यायैरसत्त्वात् खरविषाणवत् ॥ २१८५॥
वोमा तिणिच्चजातं न जायते तेण सव्वधा सोम्म ।
इय दव्वतया सव्वं भयणिज्जं पज्जनगतीये ॥ २१८६॥
वोमाति० गाहा । व्योमादि च नित्यं जातत्वात् सर्वथा न जायते । तथा हि सर्वं द्रव्यतया । पर्यायतया तु जातादिविकल्पैर्भजनीयम् । तथैवोदाहृतमिति ॥ २१८६ |
१ मि जे । २ गईए को है ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org