________________
७४
सप्तपदार्थी
सरलीकरोति तन्निरासार्थं संस्कार इति ।।२६७।।
संयोगादयोऽव्यापका इत्युक्तं, तदव्यापकत्वं लक्षयति
अव्यापकत्वं स्वाभावसादेश्यम् तदभावो व्यापकत्वम् ।।२६८।।
समानदेशस्य भावः सादेश्यम् । स्वाभावेन सह सादेश्यं स्वाभावसादेश्यम् । यत्राश्रये संयोगो वर्त्तते तत्राश्रये संयोगाभावो वर्त्तते । आश्रयैकदेशे संयोगः, आश्रयैकदेशे संयोगाभावः इति स्वस्याभावस्य च समानदेशत्वम् । एतावता यो गुण आश्रयैकदेशे भवति, आश्रयैकदेशे च न स्यात् सोऽव्यापकः ।।२६८।। उत्क्षेपणादयो विहितनिषिद्धोदासीना इत्युक्तं, तल्लक्षयति
विहितत्वं धर्मोत्पादकत्वम् ।।२६९।। यस्मिन्कर्मणि विहिते धर्म उत्पद्यते तद् विहितम् ।।२६९ ।।
__ अधर्मोत्पादकत्वं निषिद्धत्वम् ।।२७० ।। यस्मिन्कर्मणि कृतेऽधर्मः पापमुत्पद्यते तन्निषिद्धम् ।।२७० ।।
उभयविपरीतत्वमुदासीनत्वम् ।।२७१।। उभयाभ्यां विहितनिषिद्धाभ्यां यद्विपरीतं तदुदासीनम् । यस्मिन् कर्मणि कृते न धर्म उत्पद्यते नाप्यधर्म इत्यर्थः ।।२७१।। सामान्यं द्विविधमुक्तं, जातिरूपमुपाधिरूपं च, तल्लक्षयति
निर्वाधकं सामान्य जातिः ।।२७२ ।। 'व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ।।' एतेषां जातिबाधकानां मध्ये यत्र किमपि न स्यात्तजातिरूपं सामान्यं द्रव्यत्व-गुणत्वकर्मत्वादि ।।२७२।।
सबाधकं सामान्यमुपाधिः ।।२७३ ।। व्यक्त्यभेदादिकं यत्र किमपि बाधकं भवति तदुपाधिरूपं यथा आकाशत्वादि ।।२७३ ।।
प्रागुक्तमन्धकारोऽप्यभाव इति तल्लक्षयति१. अव्यापकं अ. १ । २. सूत्रांशोयं द्वयोरप्यादर्शपुस्तकयो स्ति, क. नि. पुस्तकयोस्तु अस्ति, अनेन लक्षणेन
चात्र भाव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org