________________
सप्तपदार्थी
आरोपितनीलरूपोऽभावोऽन्धकारः ।।२७४ ।। आरोपितं नीलं रूपं यस्मिन्नभावे स आरोपितनीलरूपः । अभावोऽन्धकार इत्युक्ते घटाभावेऽतिव्याप्तिः, तन्निरासार्थं नीलरूपः । नीलरूपोऽन्धकारः इत्युक्तेऽसम्भवः । रूपाभावात् तन्निरासार्थम् आरोपितेति । आरोपितनीलरूपोऽन्धकार इत्युक्ते 'नीलरूपमाकाशम्' आकाशेऽपि नीलरूपमारोप्यते, तत्रातिव्याप्तिः तन्निरासार्थम् अभाव इति ।।२७४ ।।।
ज्ञातता ज्ञानसम्बन्ध एवेत्युक्तं तन्न घटते । ज्ञानसम्बन्धः को नाम ? संयोगः समवायो वा ? न तावत्संयोगः, ज्ञानस्य गुणत्वात्, संयोगस्य च द्वयोर्द्रव्ययोरेव सम्भवात् । ज्ञातता च वस्तुधर्मोऽतो 'ज्ञानसम्बन्धो ज्ञातता' इति न घटते इत्याशङ्क्याह
ज्ञानसम्बन्धो' ज्ञानविषयत्वम् ।।२७५।। अत्र वस्तुभिः ज्ञानसम्बन्धः संयोगः समवायो वा न विवक्षितः किन्तु विषयविषयिभावः२ । पदार्थानां ज्ञानेन सह यो विषयविषयिभावलक्षणः सम्बन्धो भवति सैव ज्ञाततेति ।।२७५।। वस्तूनां प्रमेयत्वलक्षणो धर्मः सर्वशास्त्रप्रसिद्धः श्रूयते स क इत्याशङ्क्याह
तत्त्वज्ञानेन नियमेनावच्छेचत्वं प्रमेयत्वम् ।।२७६ ।। नियमेन निश्चयेन तत्वज्ञानेन—सम्यग्बोधेन यद्वस्तूनामवच्छेद्यत्वं तत्प्रमेयत्वम् । अवच्छेद्यत्वं प्रमेयत्वमित्युक्ते गुणा द्रव्यव्यवच्छेदका भवन्ति तत्राऽतिव्याप्तिः, तन्निरासार्थ ज्ञानेति । तथोक्ते शुक्तिर-जताद्यारोपेऽतिव्याप्तिः, तन्निरासार्थं तत्त्वज्ञानेति । तथोक्ते संशयेऽतिव्याप्तिः, संशयस्यैककोटेः सत्यत्वात्, तन्निवृत्त्यर्थं नियमेनेति ।।२७६ ।।
__ पूर्वं सङ्ख्याया गुणेष्वन्तर्भावः सिद्धवदभिहितः तन्न घटते सङ्ख्यायाः षट्पदार्थेषु वृत्तित्वात् सङ्ख्या पृथक् सप्तमः पदार्थः इत्याशङ्कय गुणेष्वन्तर्भावमाह
गुणादिषु च सङ्ख्याव्यवहारः सङ्ग्याप्रत्यासत्तिनिबन्धनः ।।२७७।।
द्रव्येष्वेव गुणादयः सन्ति, सङ्ख्यापि वर्त्तते । एकत्रैवाऽवस्थानेऽवस्थितिः प्रत्यासत्तिस्तन्निबन्धनम् । तन्निबन्धनः गुणादिषु सङ्ख्याव्यवहारो न पुनः सङ्ख्यासमवायनिबन्धनः । यथा गङ्गातटयोः सामीप्यात् गङ्गाशब्दस्तटे प्रवर्त्तते एवं सङ्ख्यागुणयोरेकस्मिन् द्रव्ये वर्तमानत्वात् सङ्ख्या द्रव्यगतैव गुणादिषु उपचर्यते ।।२७७।।
अत एव सङ्ख्याव्यवहारस्य सङ्ख्याप्रत्यासत्तिनिवन्धनत्वम् ।।२७८ ।।
न सङ्ख्यासमवायनिबन्धनत्वमित्यर्थः ।।२७८ ।। १. ज्ञानविषयत्वं ज्ञानसम्बन्धः अ. १ । २. विषयिविषयभावः अ. १ । ३. 'सङ्ख्याव्यवहारस्य' इति क. नि. पुस्तकयो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org