SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७६ सप्तपदार्थी कारणमुक्तं तल्लक्षयति ___ कार्योत्पादकत्वं कारणत्वम् ।।२७९।। यद्वस्तु कार्यमुत्पादयति—कार्योत्पत्तौ उपयोगमागच्छति । यस्मिन् सति कार्यं भवति, असति न भवति तत्कारणम् ।।२७९।। कारणभेदाँल्लक्षयति स्वसमवेतकार्योत्पादकत्वं समवायिकारणत्वम् ।।२८० ।। स्वस्मिन्नात्मनि समवेतम्-अवयवावयविभावेन गुणगुणिभावेन वा मिश्रीभूतं कार्य तस्योत्पादकं यत्तत् समवायिकारणं, यथा तन्तव: पटस्य, पटरूपस्य च पटः । उत्पादकत्वं समवायिकारणत्वमित्युक्ते कस्योत्पादकमिति साकाङ्क्षता, तन्निरासार्थं कार्योत्पादकत्वम् । समवायिकारणत्वमित्युक्ते घटप्रध्वंसा-भावविधायिनि लकुटादौ निमित्तकारणेऽतिव्याप्तिः, तन्निरासार्थं समवेतेति । समवेतकार्योत्पादकत्वं समवायिकारणत्वमित्युक्ते रूपादावसमवायिकारणेऽतिव्याप्तिः, तदपि पटादिसमवेतस्य कार्यरूपस्य पटरूपस्योत्पादकं भवति तन्निरासार्थं स्वेति ।।२८०।। समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् ।।२८१ ।। समवायिकारणेन प्रत्यासन्नं समवायसम्बन्धेन मिलितं तत् समवायिकारणप्रत्यासन्नं यथा सुखोत्पत्तौ आत्ममनःसंयोगः, सुखस्य असमवायिकारणं भवति । सुखस्य समवायिकारणमात्मा, तत्रात्ममनःसंयोगसमवेतोऽस्ति सुखोत्पत्तौ च कारणं भवति अतः सोऽसमवायिकारणम् । अथवा समवायिकारणप्रत्यासन्नम् इति मध्यमपदलोपी समासः यथा तन्तुरूपं पटरूपस्य असमवायिकारणम् । पटरूपस्य समवायिकारणं पटः, तस्य समवायिकारणं तन्तवः, तत्र प्रत्यासन्नं समवेतं तन्तुगत रूपम, अतः समवायिकारणकारणप्रत्यासन्नं तन्तुरूपं पटरूपस्यासमवायिकारणम् । अवधृतं निश्चितं सामर्थ्यम् अनन्यथासिद्धान्वयव्यतिरेकत्वं यस्य तत् अवधृतसामर्थ्यम्, यथा पटोत्पत्तौ तन्तुसंयोगः । अवधृतसामर्थ्यमसमवायिकारणमित्युक्ते निमित्तकारणेऽतिव्याप्तिः, तन्निवृत्त्यै समवायिकारणप्रत्यासन्नेति । तथोक्ते रूपं रसस्यासमवायिकारणं स्यात्, तस्यापि समवायिकारणप्रत्यासन्नत्वात्, तन्निवृत्त्यै अवधृतसामर्थ्यमिति ।।२८१।। उभयविपरीतत्वं निमित्तकारणत्वम् ।।२८२ ।। उभयाभ्यां समवायिकारणाऽसमवायिकारणाभ्यां यद्विपरीतं कारणं भवति तत् निमित्तकारणम्, यथा घटोत्पत्तौ चक्रचीवरादिकम् ।।२८२ । । द्रव्याणि पृथिव्यादीनि पञ्च मूर्तानि, चत्वारि चाऽमूर्त्तानि, तत् किं मूर्त्तत्वं किं चामूर्तत्वमित्याह १. कारणं अ. १ । २. अथ अ. १ । ३. तन्तुगत अ. १ । ४. समवायिकारणं अ. १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy