________________
सप्तपदार्थी
इयत्तावच्छिन्नपरिमाणयोगो' मूर्तत्वम् ।।२८३ ।। इयत्ता-एतावन्मात्रता, तयाऽवच्छिन्नं व्याप्तं यत्परिमाणं तेन सह संयोगः सम्बन्धस्तन्मूर्त्तत्वम् । परिमाणयोगो मूतत्वमित्युक्ते विभुपरिमाणयोगोऽस्ति आकाशे तत्रातिव्याप्तिः, तन्निवृत्त्यर्थम् इयत्ता-वच्छिन्नेति ।।२८३ ।।
। तदभावोऽमूर्तत्वम् ।।२८४ ।। तस्य इयत्तावच्छिन्नपरिमाणस्य अभावः अमूर्त्तत्वम् ।।२८४ ।। सामग्री लक्षयति
___ कार्यायोगव्यवच्छिन्ना सामग्री ।।२८५।। कार्यस्य अयोगः अनुत्पत्तिस्तेन व्यवच्छिन्ना भिन्नीकृता सामग्री, यस्यां सत्यां कार्यमुत्पद्यत एव, असत्यां नोत्पद्यत एव सा सामग्री । एतावता सकलकारणमेलनं सामग्री ।।२८५।।
सञ्जामात्रेण पदार्थानामभिधानमुद्देशः ।।२८६ ।। सञ्ज्ञामात्रेण—नाममात्रेण, न असाधारणधर्मादिना, यदभिधानं कथनं स उद्देशः । एतयोः प्रासङ्गिकत्वात् लक्षणमुक्तम् ।।२८६ ।।
नवसु द्रव्येषु यावन्तो गुणा यस्मिन् द्रव्ये वर्तन्ते तत् कथयतिरूप-रस-गन्ध-स्पर्श-सङ्ख्या -परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्वगुरुत्व-द्रवत्व-संस्काराः । एते चतुर्दश गुणाः पृथिवीसमवेताः ।।२८७।। रूप-रस-स्पर्श-सङ्ख्या -परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-गुरुत्व'द्रवत्व-स्नेह-संस्काराः । एते' चतुर्दश गुणा अप्सु समवेताः ।।२८८ ।। रूप-स्पर्श-सङ्ख्या -परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-द्रवत्व-संस्काराः । एते एकादश गुणास्तेजःसमवेताः ।।२८९।। स्पर्श-सङ्ख्या -परिमाण-पथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-संस्काराः । एते' नव गुणा वायुसमवेताः ।।२९०।। सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-शब्दाः ।
एते षड्गुणा आकाशसमवेताः ।।२९१ ।। १. परिमाणयोगित्वम् क. नि. । २. कथनमुद्देशः अ. १ । ३. अत्र 'एते चतुर्दशगुणाः', 'एते एकादश गुणाः' इत्यादिकाः पाठाः क. नि. पुस्तकयोर्न सन्ति । द्वयोरप्यादर्शपुस्तकयोः सन्ति, अतोऽत्र गृहीताः । ४. द्रवत्वंगुरुत्वं अ. १ । २, ३, ४, ५, ६, ७, ८. अत्र 'एते चतुर्दशगुणाः' 'एते एकादश गुणाः' इत्यादिकाः पाठाः क. नि. पुस्तकयोन सन्ति । द्वयोरप्यादर्शपुस्तकयोः सन्ति, अतोऽत्र गृहीताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org