SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७८ सप्तपदार्थी सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभागाः । एते' पञ्च गुणाः कालदिग्समवेताः ।।२९२ ।। सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-बुद्धि-सुख-दुःखेच्छाद्वेष-प्रयत्न-धर्माऽधर्म-भावनाः । एते' चतुर्दश गुणाः आत्मसमवेताः ।।२९३ ।। सङ्ख्या -परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-संस्काराः । एते अष्टौ गुणा मनःसमवेताः ।।२९४ ।। गुणानां समवायमुक्त्वा अन्येषामपि पदार्थानां यत्र समवायस्तत्कथयति कर्म मूर्त्तद्रव्यसमवेतमनित्यमेव ।।२९५।। कर्म चलनात्मकं मूर्तेष्वेव द्रव्येषु समवेतं भवति । अमूर्तानां चलनायोगात् । तच्चानित्यमेव क्रियायाः सर्वत्र क्षणं विनश्वरत्वात् ।।२९५।। सामान्यं द्रव्यगुणकर्मसमवेतम् ।।२९६ ।। सामान्यं सत्तादिकं द्रव्ये गुणे कर्मणि च समवेतं, न सामान्यादिषु, सामान्ये सामान्याङ्गीकारे आत्माश्रयः, सामान्यान्तराङ्गीकारेऽनवस्था, विशेषेषु सामान्याङ्गीकारे स्वरूपहानिः, समवायाभावयोः सामान्याङ्गीकारेऽसम्बन्धः सम्बन्धाभावो बाधकः, तस्मात् सामान्यं द्रव्यादिषु त्रिष्वेव समवेतमिति ||२९६।। विशेषा' नित्यद्रव्यसमवेताः ।।२९५।। विशेषाणां यावन्नित्यद्रव्यवृत्तित्वान्नित्येष्वेव समवेताः ।।२९७।। समवायाभावौ तु असमवेतावेव ।।२९८ ।। समवायः क्वचिन्न समवेतः सम्बन्धाऽभावात् । तेनैव समवायेन समवेतत्वाङ्गीक्रियमाणे आत्माश्रयः, समवायान्तरेण च अनवस्था । अभावोऽप्यसमवेतः अभावे भावरूपस्य समवायस्य असम्भवात् ।।२९८ ।। द्रव्यं तु कार्यरूपं स्वाऽवयवसमवेतम् ।।२९९।। कार्य्यरूपं द्रव्यं व्यणुकादिघटपटादिकं स्वावयवेषु स्वसमवायिकारणेषु समवेतं यथा पटस्तन्तुषु, घटो मृत्पिण्डे, शरीरं करचरणादिके ।।२९९।। १, २, ३. अत्र ‘एते चतुर्दशगुणाः' 'एते एकादश गुणाः' इत्यादिकाः पाठाः क. नि. पुस्तकयोर्न सन्ति । द्वयोरप्यादर्शपुस्तकयोः सन्ति, अतोऽत्र गृहीताः । ४. विशेषास्तु क. नि. । ५. तु क. नि. पुस्तकयो स्ति । ६. इत ऊर्ध्वम् 'अ २' पुस्तकस्य पत्राणि नोपलभ्यन्ते अतः पाठभेदा न दत्ताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy