________________
सप्तपदार्थी
अकार्य'द्रव्यमसमवेतमेव ।।३०० ।। अकार्यद्रव्यं नित्यद्रव्यं परमाण्वाकाशकालदिगात्ममनोलक्षणम् । तत् असमवेतमेव क्वचिदनाश्रितमेव ।।३००।।
अथ सर्वेषां कार्यरूपाणां वस्तूनां विनाशो भवति । स कुतः कुतो भवतीत्याशङ्कयाह
द्रव्यस्य समवाय्यसमवायिकारणविनाशाभ्यां विनाशः ।।३०१।। द्रव्यस्य कार्यरूपस्य क्वचित्समवायिकारणनाशान्नाशः । यथा तन्तूनां ज्वलनादिना प्रध्वंसे पटध्वंसः । कचिदसमवायिकारणनाशात् । यथा पटस्य तन्तूनां संयोगोऽसमवायिकारणं भवति, तस्य नाशे पटस्यापि नाशः स्यात् ।।३०१।।
गुणस्य समवाय्यसमवायिनिमित्तकारणनाशविरोधिगुणेभ्यः ।।३०२ ।।
गुणस्य विनाशः क्वचित्समवायिकारणविनाशाद् भवति, यथा पटस्य प्रध्वंसे पटरूपप्रध्वंसः । क्वचिदसमवायिकारणविनाशाद्विनाशः, यथा पटरूपस्य असमवायिकारणं तन्तुरूपं, तस्य विनाशात् पटरूपविनाशः । क्वचिन्निमित्तकारणविनाशाद्विनाशः, यथा परत्वाऽपरत्वद्विपृथक्त्वादिषु अपेक्षाबुद्धिर्निमित्तकारणं तस्या विनाशाद्विनाशः। अथवा कचिद् विरोधिगुणेभ्यो गुणस्य विनाशः, यथा विभागात् संयोगविनाशः; दुःखात्सुखविनाशः ।।३०२।।।
___कर्मणः समवायिकारणोत्तरसंयोगाभ्यां विनाशः ।।३०३।।
कर्मणो विनाशः क्वचित्समवायिकारणविनाशात् यथा गच्छतो बाणस्यान्तरालबाणादिना विनाशे जाते सति गतिविनाशः । कचिदुत्तरसंयोगात् विनाशः यथा बाणादावेव भूम्यादिसंयोगेन गतिविच्छेदः ।।३०३।। सामान्यविशेषसमवायानां नित्यत्वाद्विनाशो नास्ति ।।
प्रागभावस्य तु प्रतियोग्युत्पादकसामग्रीतः ।।३०४ ।। प्रतियोगी विरोधी सम्बन्धी यथा घटाभावस्य घटः तस्योत्पादिका सामग्री तस्याः प्रागभावस्य विनाशो भवति । यथा मृत्पिण्डचक्रचीवरसकलकारणसमूहात् घटप्रागभावस्य विध्वंसो भवति ।।३०४।।
१. अकार्यं अ. १ । २. द्रव्यासमवेतमेव अ. १ । ३. विनाशस्तु द्रव्यस्य समवाय्यसमवायिकारणनाशाभ्याम् । क. नि. । १. गुणस्य तु क. नि. । ५. गुणेभ्यो नाशः क. गुणेभ्यो विनाशः नि. । ६. समवाय्यसमवायिनिमित्तकारणनाशोत्तरसंयोगाभ्यां क. नि. । जिनवर्धनीकारसम्मतोऽयं पाठः किन्तु स मितभाषिणीकारासम्मतः । मि. भा. पृ. ८८ 'क' पुस्तकस्था । ७. 'तु' क. नि. पुस्तकयोर्नास्ति । ८. घटोत्पादिकासामग्रीतः अ. पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org