________________
८०
अन्योन्याभावस्य प्रतियोगिविनाशकारणात्' ।। ३०५ ।।
प्रतियोगी विरोधी तस्य विनाशकारणात् अन्योन्याभावस्य विनाशः स्यात् । यथा घटः पटो न भवति इति अन्योन्याभावः, तयोर्घटपटयोर्मध्येऽन्यतरस्य द्वयोर्वा प्रतियोगिनोर्विनाशकारणात् अन्योन्याभावस्यापि विनाशः स्यात् । अत्यन्ताभावप्रध्वंसाभावयोस्तु नित्यत्वाद्विनाशो नास्ति
1130411
अथ सर्वेषां पदार्थानामुत्पत्तिमाह
उत्पत्तिस्तु द्रव्यगुणकर्म्मणां समवाय्यसमवायिनिमित्तकारणेभ्यः । । ३०६ ।।
द्रव्यस्य पटादेरुत्पत्तिः समवायिकारणात् तन्त्वादेः; असमवायिकारणात् तन्तुसंयोगात्; निमित्तकारणात् कौलिकवेमतुर्यादिकात् । गुणस्य च रूपादेः समवायिकारणं पटादि; असमवायिकारणं तन्तुगतरूपादि, निमित्तकारणम् ईश्वरेच्छादृष्टादि; तेभ्य उत्पद्यते गुणः । कर्म्मणः समवायिकारणं बाणादि, असमवायिकारणं धनुःसंयोगादि, निमित्तकारणं प्रयत्नादि, तेभ्य उत्पत्तिः ।। ३०६ ।।
तत्र समवायिकारणं किमित्याशङ्क्याह
समवायिकारणं त्रयाणां द्रव्यमेव ||३०७ ।।
त्रयाणां द्रव्यगुणकर्मणां द्रव्यमेव समवायिकारणं भवति । द्रव्यसमवेतत्वेनैव सर्वेषामुत्पादात्
||३०७||
सप्तपदार्थी
असमवायिकारणं किमित्याशङ्क्याह
असमवायिकारणं द्रव्यकर्मणोः संयोग एव ।।३०८ ।।
द्रव्यस्यासमवायिकारणं संयोगः यथा पटोत्पत्तौ तन्तुसंयोगः । बाणादिकर्म्मोत्पत्तौ धनुर्ज्या - संयोगाद्यसमवायिकारणम् ।।३०८।।
गुणस्य त्वसमवायिकारणं समानजातीयं क्वचिदसमानजातीयं गुणान्तरम्, कचित्कर्म्म
।।३०९।।
गुणस्यासमवायिकारणं कचित्समानजातीयं गुणान्तरं भवति, यथा पटगतरूपस्य तन्तुगतं रूपम् । क्वचिदसमानजातीयं गुणान्तरमसमवायिकारणं भवति, यथा पार्थिवपरमाणुगतरूपादीनामग्निसंयोगः । क्वचित्कर्म्मासमवायिकारणम्, यथा कर्म्मजसंयोगस्य कर्म्म असमवायिकारणं स्यात् ।। ३०९ ।।
निमित्तकारणं किमित्याशङ्क्याह
१. नाशकारणात् क. । २. तत्र समवायिकारणं क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org