________________
समपदार्थी
निमित्तकारणं सर्वेषामीश्वरेच्छाऽदृष्टादि' ।।३१०।।। सर्वेषां द्रव्यगुणकर्मणां निमित्तकारणम् ईश्वरो जगत्कर्ता, अदृष्टं धर्माऽधर्मादि । आदिशब्दात् पुरुषप्रयत्नप्रभृतिकम् ।।३१०।।
सामान्यविशेषसमवायानां नित्यत्वादुत्पत्तिर्नास्ति । अथाऽभावस्याह
अन्योन्याभावप्रध्वंसाभावयोस्तु निमित्तादेव केवलादुत्पत्तिः ।।३११ ।।
अभावस्य समवायिकारणं नास्ति तस्य क्वचिदप्यसमवेतत्वात् । असमवायिकारणमपि नास्ति, समवायिकारणप्रत्यासन्नस्यैवासमवायिकारणत्वात्, अभावस्य समवायिकारणाभावात्, किन्तु निमित्तकारणादेव केवलादन्योन्याभाव उत्पद्यते, यथा घटोत्पत्तौ घटान्योन्याभावोत्पत्तिः । प्रध्वंसाभावो लकुटादिघातात् ।।३११।। अथ किमपि वस्तूनां लक्षणं नोक्तं तत्राह
अपरं तु सकलं शास्त्रं सुबोधमिति ।।३१२।। यदत्र लक्षणादिकं नोक्तं तत्सुबोधं सुखबोधमिति स्वयं ज्ञेयम् ।।३१२।। अत्र विशेषणविशिष्टत्वं सर्वत्र श्रूयते तत्किमित्याशङ्ख्याह
"वैशिष्ट्यमन्यव्यावृत्तिः ।।३१३।। येन विशेषणेन अन्येभ्यः पदार्थान्तरेभ्यो व्यावृत्तिः क्रियते तद्वैशिष्ट्यम् । यथा 'गन्धवती... पृथिवी' इत्यत्र गन्धवत्त्वं वैशिष्ट्यमन्येभ्यो जलादिभ्यो व्यावर्तकं भवति ।।३१३।। किं वा विशेषणं किं वा उपलक्षणमित्याशक्याह
समानाधिकरणं व्यावर्तकं विशेषणम् ।।३१४ ।। यत्समानाधिकरणम्-एकविभक्त्यन्तपदवाच्यम्, यद्व्यावर्तकं व्यवच्छेदकं तद्विशेषणं यथा नीलमुत्पलमिति। समानाधिकरणं विशेषणमित्युक्ते घटः पट इत्यादौ वचनेऽतिव्याप्तिः, तन्निवृत्त्यर्थं व्यावर्तकमिति । व्यावर्तकं विशेषणमित्युक्ते उपलक्षणेऽतिव्याप्तिः, तन्निवृत्त्यर्थं समानाधिकरणमिति ||३१४।। समानाधिकरणमित्युक्तं तत्किमित्याह
एकविभक्त्यन्तपदवाच्यत्वं समानाधिकरणत्वम् ।।३१५।। एकविभक्तिः प्रथमादिका अन्ते यस्य तत् एकविभक्त्यन्तं पदं, तेन वाच्यत्वं कथ्यमानत्वं समानाधिकरणत्वं यथा देवदत्तोऽयं दण्डीति ।।३१५।। १. ष्टादीनि क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org