________________
सप्तपदार्थी
व्यधिकरणमवच्छेदकमुपलक्षणम् ।।३१६ ।। व्यधिकरणं भिन्नविभक्त्यन्तपदवाच्यम्, अवच्छेदकमन्यव्यावर्तकम्, तदुलक्षणं यथा जातिमत्त्वे सति अचलनात्मकत्वे सति समवायिकारणत्वरहितो गुणः ।।३१६।।
भिन्नविभक्त्यन्तपदवाच्यत्वं वैयधिकरण्यम् ।।३१७ ।। भिन्ना विभक्तिरन्ते यस्य पदस्य तत् तथा, तेन वाच्यत्वं कथनीयत्वं, तत् वैयधिकरण्यं यथा एकत्र विशेषणे सप्तम्यन्तं विशेष्ये प्रथमान्तम् ।।३१७।। समानाधिकरणमित्युक्तं वैयधिकरणं चेत्युक्तम् । तत्र पूर्वमधिकरणमेव किमित्याशङ्कयाह
जातिप्रत्यासत्तिरधिकरणत्वम् ।।३१८।। जात्या स्वभावेन' प्रत्यासत्तिराश्रितत्वमधिकरणत्वम् ।।३१८ ।। विभुत्वं किमित्याशङ्क्याह
समस्तमूर्तद्रव्यसंयोगित्वं विभुत्वम् ।।३१९ ।। समस्तैर्मूर्तव्यैः सह यस्य संयोगः स्यात् तदाकाशादिकं व्यापकं द्रव्यं विभु कथ्यते । संयोगित्वं विभुत्वमित्युक्ते कैः सह संयोगित्वमिति साकाङ्क्षता, तन्निवृत्त्यर्थ द्रव्यसंयोगित्वमिति । तथोक्ते शरीरादावतिव्याप्तिः तदपि द्रव्येणात्मना सह संयोग्यस्ति, तन्निवृत्त्यर्थं मूर्तेति । तथोक्ते घटादावतिव्याप्तिः, तन्निवृत्त्यर्थं समस्तेति । समस्तद्रव्यसंयोगित्वमित्युक्ते असम्भवि लक्षणं स्यात् । नह्याकाशादिकं समस्तैर्मूर्तामूर्त्तव्यैः सह संयोग्यस्ति किन्तु मूतैरेव सह, अमूर्तानां परस्परसंयोगे संयोगस्य सादेश्यप्रदेशवर्त्तित्वं व्याहन्यते तन्निवृत्त्यै मूर्तेति ।।३१९।। का युतसिद्धिः का वाऽयुतसिद्धिरिति तल्लक्षयति
विद्यमानयोः सम्बन्धो युतसिद्धिः ।।३२०।। स्वावयवेषु पृथक्त्वेन स्थितयोर्विद्यमानयोर्यः परस्परसम्बन्धः सा युतसिद्धिः, यथा हस्तपुस्तकसंयोगः ।।३२०।।
अविद्यमानयोराधाराधेययोः सम्बन्धोऽयुतसिद्धिः ।।३२१ ।। अविद्यमानं च विद्यमानं च अविद्यमानविद्यमाने; तोरेकशेषात् अविद्यमानयोरिति । एतावता कारणं विद्यमानं भवति, कार्यं चाविद्यमानमुत्पद्यते तदाश्रितत्वेनैव जायते, यथा तन्तुपटयोः । नहि तन्तुभिर्विना पटः क्वचित् पृथग्भवति । अतः अविद्यमानयोराधाराधेयभूतयोर्यः सम्बन्धः सा अयुत
१.व्यधिकरणं सद् व्यावर्तकम् क. नि. । २. स्वभावसम्बन्धेन अ. १ पा. टि. । ३. सकलमूर्तसंयोगित्वं
क. नि. । ४. कारणाश्रितत्वेनैवोत्पद्यते अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org