________________
सप्तपदार्थी
सिद्धिः, सा च समवायसम्बन्ध उच्यते । तथा चोक्तम्-अवयवावयविनोर्गुणगुणिनोः क्रियातद्वतोः जातिव्यक्त्योर्विशेषतद्वतोः समवायः सम्बन्धः । एतावता संयोगो युतसिद्धिः समवायोऽयुतसिद्धिरिति भावः ।।३२१।। शास्त्रं किं स्यादित्याशङ्क्याह
श्रेयःसाधनाभिधायकं' शास्त्रम् ।।३२२ ।। श्रेयसो मोक्षस्य यत्साधनम्-असाधारणं कारणं तदभिधायकं शास्त्रम् । व्यावृत्तिः सर्वत्रापि सुगमतया स्वयं कार्या ।।३२२।। प्रान्तमङ्गलमाचरति
सप्तद्वीपा धरा यावत् यावत् सप्तधराधराः ।
तावत् सप्तपदार्थीयमस्तु वस्तुप्रकाशिनी ।।१।। .. यावत् इयं धरा पृथिवी सप्तद्वीपयुताऽस्ति; यावदमी सप्त कुलाचलाः सन्ति तावदियं सप्तपदार्थी वस्तुप्रकाशिनी अस्तु ।।
इति श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे जिनवर्धनसूरिविरचिता सप्तपदा टीका समाप्ता ।। ग्रन्थाग्रम् १८१४ ।। शुभं भवतु ।। सं० १५२७ वर्षे चैत्रसुदि ७ गुरौ श्रीपत्तने श्रीपूर्णिमापक्षे पूज्यराजश्रीजयप्रभसूरिभिः शिष्ययशस्तिलकमुनिसमध्यापनाय सप्तपदार्थीटीका लिलिखे परोपकृतये च ।। .
१. साधनश्रेयोऽभिधायकं का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org