________________
सप्तपदार्थी
सांसारिकमित्युक्ते स्वर्गसुखेऽतिव्याप्तिः, तन्निरासार्थं प्रयत्नोत्पाद्येति, स्वर्गसुखमिच्छामात्रादेव भवति, न प्रयत्नात्', यच्चिन्त्यते तदग्रत एव भवति ।। २६१।।
इच्छामात्राधीनसाधनसाध्यं सुखं स्वर्गस्थम् ।।२६२।।
७३
इच्छामात्राधीनानि वाञ्छामात्रेणोपजायमानानि साधनानि स्त्रवचन्दनाङ्गनासंयोगादीनि तदुत्पाद्यं यत्स्वर्गस्थम् । साधनसाध्यं स्वर्गस्थमित्युक्ते घटादावतिव्याप्तिः, तन्निरासार्थं सुखमिति । तथोक्ते सांसारिकसुखेऽतिव्याप्तिः तन्निरासार्थमिच्छाधीनेति । इच्छाधीनसाधनसाध्यं सुखं स्वर्गस्थ - मित्युक्ते राजादिसुखेऽतिव्याप्तिः तन्निरासार्थं मात्रेति । राजादीनामपि नेच्छामात्रादेव सुखसिद्धिः किन्तु इच्छाऽनुवचनम्, वचनाज्जनप्रयत्नः, तस्मात्साधनमेलनं ततः सुखम् । स्वर्गसुखे तु इच्छामात्रादेव सर्वं सुखसाधनं संयुज्यते ।। २६२।।
द्रवत्वं सांसिद्धिकं नैमित्तिकं चेत्युक्तम् । तल्लक्षयति —
सांसिद्धिकत्वं तेजःसंयोगानुत्पाद्यत्वम्' ।।२६३। यत् तेजःसंयोगं विनैव द्रवत्वं भवति जलादौ तत्सांसिद्धिकम् ।।२६३।। तेजः संयोगोत्पाद्यत्वं नैमित्तिकत्वम् || २६४ ॥ ।
तेजःसंयोगेन—वह्न्न्यादिसम्बन्धेनोत्पाद्यं सर्पिःस्वर्णादौ द्रवत्वं तन्नैमित्तिकम् ।। २६४ ।। संस्कारभेदान् लक्षयति
कर्म्मजः संस्कारो वेगः ।। २६५ ।।
संस्कारो वेग इत्युक्ते भावनादावतिव्याप्तिः, तन्निरासार्थं कर्म्मज इति । कर्म्मज इत्युक्ते संयोगादावतिव्याप्तिः, तन्निरासार्थं संस्कार इति ।। २६५ ।।
ज्ञानजः संस्कारो भावना ।। २६६ ।।
ज्ञानादनुभवाज्जातः संस्कारो धारणाविशेषः स्मृतेरुत्पादको भावनेत्युच्यते । संस्कारो भावनेत्युक्ते वेगादावतिव्याप्तिः, तन्निरासार्थं ज्ञानज इति । ज्ञानज इत्युक्ते सुखादावतिव्याप्तिः तन्निरासार्थं संस्कार इति ।। २६६ ।।
ऋजुत्वापादकः संस्कारः स्थितिस्थापकः । । २६७ ।।
ऋजुत्वं पूर्वावस्था तत्र वस्त्वापादयतीति ऋजुत्वापादकः । संस्कार इत्युक्ते वेगादावतिव्याप्तिः तन्निरासार्थम् ऋजुत्वापादक इति । ऋजुत्वापादक इत्युक्ते पुरुषादावतिव्याप्तिः पुरुषोऽपि चक्रीभूतं वस्तु
१. प्रयत्नत्वात् अ. २ । २. इच्छामात्राधीनं अ. १ । ३. स्वर्गः क. । ४. 'सुखम्' अ. १ पुस्तके भ्रष्टम् इदं पदम् । ५. ९नुत्पाद्यं अ. १ । ६. स्थित्यापादकः क. नि. पाठोऽयं मितभाषिणीकारस्यासम्मतः - मि. भा पृ. ८३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org