________________
७२
विशिष्टग्रहणं' सविकल्पकम् ।। २५५ ।।
विशेषणविशेष्यसहितं यद्वस्तुनो ग्रहणं तत्सविकल्पकं यथा देवदत्तो दण्डीति ।। २५५ । ।
अतीतावस्थावच्छिन्नं' वस्तुग्रहणं प्रत्यभिज्ञानम् ।।२५६।।
अतीतावस्थया ——— पूर्वावस्थया यदवच्छिन्नं प्राप्तं सहितं यद्वस्तुनो ग्रहणं तत्प्रत्यभिज्ञानम्, यथा स एवाऽयं देवदत्त इति । वस्तुग्रहणं प्रत्यभिज्ञानमित्युक्ते घटोऽयमिति ज्ञानेऽतिव्याप्तिः, तन्निरासार्थम् अतीतावस्थावच्छिन्नेति। तथोक्ते स्मृतावतिव्याप्तिः, तन्निरासार्थं वस्तुग्रहणमिति ।।२५६।।
हानं लक्षयति
दुःखसाधनं ज्ञानं हानम् ।। २५७ ।।
दुःखास्पदं वस्तुसाधनमसाधारणं कारणं तस्य ज्ञानमवगमः । इदं वस्तु दुःखोत्पादकमिति ज्ञानं हानम् ।।२५७।।
सप्तपदार्थी
सुखसाधनं ज्ञानमुपादानम् ॥ २५८ ॥
इदं वस्तु सुखसाधनमिति ज्ञानमुपादानम् ।। २५८ ।।
उभयासाधनं' ज्ञानमुपेक्षा ।। २५९।।
'उभयोरपि सुखदुःखयोरिदं साधनं न भवति' इति ज्ञानमुपेक्षा, यथा लोष्ठखण्डादौ । । २५९ ।। अनालिङ्गितोभयकोट्यनवधारणं ज्ञानमनध्यवसायः ।। २६० ।।
यत्र कोटिद्वयं नालिङ्गते 'स्थाणुर्वा पुरुषो वेति' चेत्, अनवधारणं ज्ञानं च भवतिअनिश्चयात्मकं ज्ञानं च स्यात् सोऽनध्यवसायः - 'किंसञ्ज्ञकोऽयं वृक्षः' इति । अनवधारणं ज्ञानमनध्यवसाय इत्युक्ते संशयादावतिव्याप्तिः तन्निरासाय अनालिङ्गितोभयकोटीति । तथोक्ते सम्यग्ज्ञानेऽतिव्याप्तिः, तन्निरासाय अनवधारणेति ।। २६० ।।
बुद्धेर्भेदानां सर्वेषां लक्षणान्यभिधाय सुखभेदलक्षणमाह
प्रयत्नोत्पाद्य 'साधनाधीनं सुखं सांसारिकम् ।।२६१ । ।
प्रयत्नेन — उद्यमेन उत्पाद्यानि यानि साधनानि स्रक्चन्दनाङ्गनासंयोगादीनि तदधीनं तदायत्तं यत् । साधनाधीनं सांसारिकमित्युक्ते घटादावतिव्याप्तिः, तन्निरासार्थं सुखमिति । साधनाधीनं सुखं
Jain Education International
१. विशिष्टस्य क. नि. । २. अतीतावच्छिन्नं क. नि. । ३-४. साधनज्ञानं क. नि. । ४. उभयोः अ. १, घनत्वज्ञानं क. नि. । ६. अत्र उत्कटैककोटिकः संशय ऊहः इति ऊहस्याधिकं लक्षणं 'क' नि. पुस्तकयोः तच्च भि. भा. कारस्यापि न सम्मतं, स तु लिखति "ऊहनम् ऊह इति व्युत्पत्त्यैव तल्लक्षणं स्पष्टमिति मत्वा अनध्यवसायं लक्षयति अनालिङ्गितेति"मि भा. पृ. ८२ क पुस्तके । ८ धारणज्ञानं क. नि. । ७. प्रयत्नोत्पाद्यं अ. १ ।
For Private & Personal Use Only
www.jainelibrary.org