________________
सप्तपदार्थी
तर्क इत्युक्ते कालकूटाद्यभिघातारोपणेऽतिव्याप्तिस्तन्निरासार्थं व्यापकेति ।।२५०।। __ प्रसञ्जनमित्युक्तम्, तल्लक्षयति
तुल्यत्वेनाभावयोः प्रत्यंभाववचनं प्रसञ्जनम् ।।२५१ ।। __ स्थानान्तरे बढ्यभावे धूमाभावो दृश्यते । पर्वते यदि वयभावः प्रतिभाति तर्हि धूमाभावोऽपि प्रतिभायात्' इति व्याप्याभावव्यापकाभावयोस्तुल्यत्वेन प्रतिवादिनः प्रतिकूलं साधनस्याप्यभाववचनं तत् प्रसञ्जनम्; यथा 'यदि वह्निमत्त्वं न स्यात्तर्हि धूमवत्त्वमपि न स्यात्' इति प्रसञ्जनम् । प्रसञ्जनमित्युक्ते सापेक्षता, तन्निरासार्थं वचनमिति। तथोक्ते घटपटौ प्रतिभासेते तत्रातिव्याप्तिः, तन्निरासार्थमभावयोरिति । अभावयोर्वचनमित्युक्ते घटपटावत्र न वर्तेते तत्रातिव्याप्तिः तन्निरासाय प्रत्यभाववचनम् । तत्र प्रतिकूलमभाववचनं किमपि नास्ति । अभावयोः प्रत्यभाववचनं प्रसञ्जनं तर्क इत्युक्ते यदि घटो न स्यात् तर्हि पटोऽपि न स्यात् तत्रातिव्याप्तिः तन्निरासार्थं तुल्यत्वेनेति । नहि घटाभावे पटाभाव इति तुल्यत्वनियमोऽस्ति ।।२५१ ।। तर्कलक्षणमुक्त्वा स्वप्नलक्षणमाह
निद्रादुष्टान्तःकरणजं ज्ञानं स्वप्नः ।।२५२ ।। निद्रया दुष्टम् उद्भ्रान्तं यदन्तःकरणं मनः, तस्माज्जातं यज्ज्ञानं स स्वप्नः । ज्ञानं स्वप्न इत्युक्ते रूपादिज्ञानेतिव्याप्तिः तन्निरासार्थं निद्रेति ।।२५२।।
निद्रां लक्षयति
योगजधर्माननुगृहीतस्य मनसो निरिन्द्रियप्रदेशाऽवस्थानं निद्रा ।।२५३ ।।
योगजधर्म विना यन्मनसः इन्द्रियप्रदेशानपहाय अन्यत्रावस्थानं सा निद्रेति । अवस्थानं निद्रेत्युक्ते ईशेच्छाप्रयत्नज्ञानानामवस्थानं तत्रातिव्याप्तिः, तन्निरासार्थं प्रदेशेति प्रदेशावस्थानं निद्रा इत्युक्ते गौरत्वं शरीरप्रदेशेऽवतिष्ठति तत्रातिव्याप्तिः; तन्निरासार्थं निरिन्द्रियेति । निरिन्द्रियप्रदेशाऽवस्थानं निद्रेत्युक्ते गृहकोणे निक्षिप्तघटेऽतिव्याप्तिः तन्निरासार्थं मनसः । मनसो निरिन्द्रियप्रदेशाऽवस्थानं निद्रेत्युक्ते युक्तावस्थायामतिव्याप्तिः तन्निरासार्थं योगजधर्माननुगृहीतस्येति ।।२५३।।।
___ पूर्वं सविकल्पकनिर्विकल्पकयोः प्रमायामप्रमायां चान्तर्भाव इत्युक्तं तत्र निर्विकल्पकं लक्षयति
वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम् ।।२५४ ।। यद्वस्तुनः स्वरूपमात्रमवभासयति किञ्चिदत्रास्ति इत्येवंरूपं तन्निर्विकल्पकम् ।।२५४ ।। १. मात्रग्रहणं क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org