________________
सप्तपदार्थी
साध्याऽसाधकः' पक्ष एव वर्तमानो हेतुरनध्यवसितः ।।२४७।।
हेतुरनध्यवसित इत्युक्ते शुद्धहेतावतिव्याप्तिस्तन्निरासार्थं साध्याऽसाधक इति । तथोक्ते सिद्धेऽतिव्याप्तिः तन्निरासार्थं पक्षे वर्तमान इति । तथोक्तेऽनैकान्तिकादावतिव्याप्तिस्तन्निरासार्थं पक्ष एवेति । पक्षे एव वर्तमान इत्युक्ते केवलव्यतिरेकिण्यतिव्याप्तिः, तन्निरासार्थं साध्याऽसाधक इति ।।२४७।।
स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः ।।२४८।। यो हेतुः स्वपक्षसिद्धौ परपक्षसिद्धौ च त्रिरूपो भवति पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिलक्षणैस्त्रिभीरूपैर्युक्तो भवति स प्रकरणसमः । यथा अनित्यः शब्द: पक्षसपक्षयोरन्यतरत्वात् सपक्षवद् । एवं नित्यः शब्द: पक्षसपक्षयोरन्यतरत्वात् सपक्षवत् ।।२४८।।
कालात्ययापदिष्टं लक्षयति
उपजीव्यप्रमाणनिश्चितसाध्यविपरीतत्वं कालात्ययापदिष्टत्वम् ।।२४९।।
उपजीव्यप्रमाणं धर्मिग्राहकप्रमाणम; तेन निश्चितं यत्साध्यं तस्माद् विपरीतत्वं कालात्ययापदिष्टत्वम् । यथा अनुष्णोऽयमग्निर्दाहकत्वात् हिमवत् । अत्र उपजीव्यं प्रमाणं धर्मिणो वह्वेर्लाहकं प्रत्यक्षम्, तेन निश्चितं यत्साध्यं वर्तते उष्णत्वम्, तद्विपरीतत्वमनुष्णत्वं साधयेद् इदमनुमानं कालात्ययापदिष्टम् ।।२४९।। तर्कस्वप्नाविति कथितम्, तत्त| लक्षयति
अनिष्टव्यापकप्रसञ्जनं तर्कः ।।२५० ।। अन्वयाऽविनाभावे साध्यं व्यापकं साधनं व्याप्यम् । व्यतिरेकाऽविनाभावे' साधनाभावो व्यापकः साध्याभावो व्याप्यः । धूमाद्यनुमाने प्रयुक्ते प्रतिवादी पक्षे साध्यं न मन्यते । अतो वादिना साध्याभावबलेन साधनाभावो व्यापकः परस्याऽनिष्टोऽपि प्रसज्यते बलादारोप्यते स तर्कः । यथा यदि वह्निमत्त्वं न स्यात्तर्हि धूमवत्त्वमपि न स्यात्, यथा जलाशये । धूमवत्त्वं प्रत्यक्षेणोपलभ्यमानमस्ति, तदभाव: परस्य अनिष्टः व्यापकश्च, तस्य प्रसञ्जनं तर्क इति । प्रसञ्जनं तर्कः इत्युक्ते यदि वह्निः स्यात्तर्हि भाण्डादिमत्त्वमपि स्यादिति प्रशिथिलमूले तळभासेऽतिव्याप्तिस्तन्निरासाय 'व्यापकप्रसञ्जनम्' इति । तथोक्ते आत्मा नित्यः द्रव्यत्वाद् इत्यत्रानुमाने यदि नित्यः स्यात्तर्हि अकृतको भवेदित्यादि इष्टापत्तिलक्षणे तर्काभासेऽतिव्याप्तिस्तन्निरासार्थमनिष्टेति । तत्र तु अकृतकत्वमिष्टमेव । अनिष्टप्रसञ्जनं
१. इदं सूत्रं 'क' पुस्तके नास्ति । पाठोऽयंमितभाषिणीकारेणाप्युपलब्धः स तु लिखति "क्वचित्तु अनैकान्ति
कानध्यवसितयोः पृथग्लक्षणं दृश्यते" भि. भा. पृ. ८० । क. नि. पुस्तके तु साध्यासाधकत्वे सति पक्षमात्रवृत्तित्वमनध्यवसितत्वमिति पाठः । पुस्तके । २. क. नि. नास्ति । ३. अन्वयव्याप्ती अ. १ पा. टि.। ४. व्यतिरेकव्याप्तौ अ. १ पा. टि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org