________________
सप्तपदार्थी
६९
भवति स हेत्वाभास इति । यस्य पक्षधर्मत्वं नास्ति स असिद्धः । यत्र सपक्षे सत्त्वं नास्ति स विरुद्धः । यत्र विपक्षाद्र्यावृत्तिर्नास्ति स अनैकान्तिकः । यत्राऽबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः । यत्राऽसत्प्रतिपक्षत्वं नास्ति स प्रकरणसमः ।। २४२ ।।
हेत्वाभासभेदान् लक्षयति
पक्षधर्मत्वेनानिश्चितत्वमसिद्धत्वम् ।।२४३।।
यो हेतुः पक्षे व्याप्यवृत्तित्वेन निश्चितो न भवति स असिद्धः । यथा अनित्यः शब्दः चाक्षुषत्वादित्यादि सर्वथा पक्षे नास्ति । कश्चित् ' पक्षे अनिश्चितः सन्दिग्धो भवति ।। २४३ ।। पक्षविपक्षमात्रस्पर्शित्वं विरुद्धत्वम् ।।२४४ ।।
यो हेतुः पक्षविपक्षमात्रं स्पृशति सपक्षे सर्वथा न भवत्येव स विरुद्धः । पक्षे स्पर्शित्वं विरुद्धत्वमित्युक्ते शुद्धहेतावतिव्याप्तिस्तन्निरासाय विपक्षेति । पक्षविपक्षस्पर्शी हेतुरित्युक्ते अनैकान्तिकेऽतिव्याप्तिस्तन्निरासाय मात्रेति । स तु सपक्षेऽपि स्यादिति ।। २४४।।
अनैकान्तिकानध्यवसितप्रकरणसमानां त्रयाणामेकं नाम सन्दिग्धो हेत्वाभास इति तल्लक्षणमाहसाध्यतदभावसाध्यत्वं सन्दिग्धत्वम् ।।२४५ ।।
साध्यं साधयितुमिष्टमनित्यत्वादि, तदभावः तद्विपरीतमिति नित्यत्वादि, तदुभयमपि साध्यं यस्य स तथा अनैकान्तिको यथा— अनित्यः शब्दः प्रमेयत्वाद् घटवत् । एवं साध्यं साधयितुं यादृशस्तादृशः साध्यविपरीतं साधयितुमपि भवति, यथा नित्यः शब्दः प्रमेयत्वादाकाशवत् । अनध्यवसितोऽपि साध्यं तद्विपरीतं साधयितुं तुल्य एव भवति । यथा 'अनित्यः शब्दः आकाशविशेषगुणत्वात्'; एवं नित्यः शब्दः आकाशविशेषगुणत्वादिति प्रतिवक्तुं शक्यत्वात् । प्रकरणसमोऽपि साध्यं तदभावं च साधयितुं तुल्य एव यथा 'अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात्', एवं ‘नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् सपक्षवत्' इति तुल्यत्वमुभयत्रापि ।।२४५।।
एते त्रयोऽपि सन्दिग्धशब्दवाच्या भवन्ति, अतस्त्रयाणामेकं लक्षणं मिलितमभिधाय पृथग्
लक्षणमाह
पक्षत्रयवृत्तिरनैकान्तिकः ।।२४६।।
पक्षे सपक्षे विपक्षे च यो हेतुर्वर्तते सोऽनैकान्तिकः यथा - अनित्यः शब्दः प्रमेयत्वादिति ।।२४६ ।।
१. अपरं लक्षणमद: अ. १ पा. टि । २. अत्र 'क' पुस्तके पक्षत्रयवृत्तित्वमनैकान्तिकत्वम् इति लक्षणमादौ दत्त्वा ततः सन्दिग्धत्वस्य लक्षणं दत्तं किन्तु मितभाषिण्या अपि सन्दिग्धत्वस्यैव लक्षणमादौ सम्मतं दृष्टव्या चात्र 'क' पुस्तकस्था मि. भा. पृ. ८० । 'नि.' पुस्तके तु सन्दिग्धत्वस्य लक्षणं नास्ति । ३. पक्षत्रयवृत्तित्वमनैकान्तिकत्वम् क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org