________________
सप्तपदार्थी
प्रवृत्तिर्भवति “यत्र यत्र गोशब्दादिप्रयोगस्तत्र सारनादिमदादेः पदार्थस्य वाचकत्वम्, यथा गोशब्दादिसङ्केतकर्तुर्वचनम् । गोशब्दादिप्रयोजकं चैतद्वचः, तस्मात् सास्नादिमदर्थप्रतिपादकमेव' इति अविनाभावबलेनाऽऽगमोऽप्यनुमानेऽन्तर्भूत एवेति ।।२३६ ।। →प्रतिज्ञादीनवयवान् लक्षयति---
तत्र व्यापकवचनं प्रतिज्ञा ।।२३७ ।। तत्र तेषु पञ्चस्ववयवेषु व्यापकवचनम् – साध्यविशिष्टपक्षवचनं सा प्रतिज्ञा, यथा 'अनित्यः शब्दः' इति ।।२३७।।
लिङ्गस्य पक्षधर्मत्ववचनं हेतुः ।।२३८ ।। लिङ्गस्य साधनस्य यत् पक्षधर्मत्वेन पक्षाश्रितत्वेन वचनं कथनं स हेतुः । वचनं हेतुरित्युक्ते प्रतिज्ञादावतिव्याप्तिः, तन्निरासा) लिङ्गस्येति । लिङ्गस्य वचनं हेतुरित्युक्ते नित्यः शब्दः कृतकत्वाद् इति शब्देऽतिव्याप्तिः, तन्निरासार्थं पक्षधर्मत्वेनेति ।।२३८ ।।
दृष्टान्तवचनमुदाहरणम् ।।२३९।।
लिङ्गपरामर्शत्ववचनमुपनयः ।।२४०।। एकवारमभिहितं पुनरपि तदेवाभिधीयते तत्परामर्शत्वम्' । व्याप्त्यवसरे हेतुरभिहितः पुनर्निगमनावसरे 'तथा चाऽयं कृतकः' इत्यादिवचनमुपनयः ।।२४० ।।
__ लिङ्गसम्बन्धप्रयुक्तनिश्चितसाध्यत्ववचनं निगमनम् ।।२४१ ।।
लिङ्गस्य हेतोः सम्बन्धस्तेन प्रयुक्तं यत् निश्चितसाध्यत्वं तस्य वचनं निगमनम् । वचनं निगमनमित्युक्ते 'आगच्छ' गच्छेत्यादिवचनेऽतिव्याप्तिः, तन्निरासाय साध्यत्ववचनम् । तथोक्ते प्रतिज्ञायामतिव्याप्तिस्तन्निरासाय निश्चतेति । तथोक्ते कोऽपि आदावेव ‘शब्द: अनित्य एव' इति कथयति तत्रातिव्याप्तिस्तन्निरासाय लिङ्गसम्बन्धप्रयुक्तेति । लिङ्गसम्बन्धेन हेतोः पक्षे व्याप्यवृत्तित्वेन प्रयुक्तं 'तस्मात् कृतकत्वादनित्य एव शब्दः' इत्यादिवचनं निगमनम् ।।२४१।। हेत्वाभासलक्षणमाह
अङ्गवैकल्यमाभासहेतुत्वम् ।।२४२ ।। अङ्गानि पक्षधर्मत्वसपक्षसत्त्वादीनि, तैर्वैकल्यं रहितत्वम् । यत्र पञ्चसु अङ्गेषु एकमपि न्यूनं १. →एतच्चिह्नान्तर्गत पाठः अ. २. पुस्तके लेखकप्रमादवशात् पतितः । २. पक्षवचनं क. साध्यवत्त्वेन पक्षवचनं नि. । यद्यपि पक्षवचनं प्रतिज्ञा इत्येव पाठः किन्तु 'व्यापकवचनं प्रतिज्ञा' इति जिनवर्धनीसम्मत इति स एव स्वीकृतः । ३. परामर्शत्ववचनमुपनय: क. नि. । ४. साध्यवत्त्ववचनं क. निश्चितसाध्यवत्त्व नि. । ५. नित्य एवेति अ. २ । ६. माभासत्वम् क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org