________________
सप्तपदार्थी
सन्दिग्धसाध्यत्वेनोपात्तत्वं' पक्षत्वम् ।।२३१ ।। सन्दिग्धं संशयोपपन्नं साध्यं यस्य तत् सन्दिग्धसाध्यं; तस्य भावस्तत्त्वम्; तेन उपात्तत्वं गृहीतत्वम् । उपात्तत्वं पक्षत्वमित्युक्ते लकुटाद्युपदानं पक्षः स्यात् तन्निरासार्थं साध्यत्वेनेति । साध्यत्वेनोपात्तत्वमित्युक्ते सिद्धसाधनेऽतिव्याप्तिः तन्निरासार्थं सन्दिग्धसाध्यत्वेनेति ।।२३१ ।।
निश्चितसाध्यजातीयाधिकरणत्वं सपक्षत्वम् ।।२३२ ।। निश्चितः प्रमाणप्रतीत: उभयवादिप्रतीतः साध्यजातीयः साध्यसमानजातीयो यो धर्मस्तस्याधिकरणं स सपक्षः । साध्याधिकरणं सपक्ष इत्युक्ते पक्षेऽतिव्याप्ति: तन्निरासार्थं निश्चितेति । तथोक्ते असम्भवि लक्षणं, निश्चितं चेत् साध्यं कथम्, सन्दिग्धस्यैव साध्यत्वात् तन्निरासार्थं साध्यजातीयेति ||२३२।।
सम्यक्साध्यानधिकरणत्वं विपक्षत्वम् ॥२३३॥ सम्यग निश्चितं साध्यधर्मस्यानधिकरणं यत् स विपक्षः । साध्यानधिकरणं विपक्ष इत्युक्ते पक्षेऽतिव्याप्तिः तन्निरासार्थं सम्यगिति ।।२३३।।
स्वार्थमर्थरूपत्वम् ।।२३।। .. यत् परवचनानपेक्षम्, अर्थं पदार्थमेवावलोक्यानुमितिज्ञानं तत् स्वार्थम् ।।२३४ ।।
___ परार्थ शब्दरूपत्वम् ।।२३५।। शब्द: परोपदेशः पञ्चावयवं वाक्यं, तद्रूपत्वं तत्स्वभावत्वं यत् तत् परार्थम् ।।२३५।। ननु प्रमाणत्रयं वक्तव्यं, प्रत्यक्षमनुमानं शब्दश्चेति; इत्याशङ्याहशब्दस्याप्यनुमानविषयत्वेनाविनामावोपजीवकत्वेन वाऽनुमानत्वम् ।।२३६ ।।
शब्दस्यआगमस्य, अनुमानत्वम् अनुमानेऽन्तर्भावः । कुतः ? अनुमानविषयत्वात् । अनुमानस्य विषय एव विषयो यस्य स अनुमानविषय इति मध्यमपदलोपी समासः । एतावता यत्रैव वस्तुनि अनुमान प्रवर्त्तते तत्रैवागम इति समानविषयत्वात् आगमोऽनुमानान्तर्भूतः । अथवाऽविनाभावोपजीवकत्वेन च, यथा अनुमानमविनाभावस्य व्याप्तेरुपजीवकं भवति व्याप्तिबलेनैवार्थं प्रतिपादयति तथाऽऽगमोऽपि । कथम् ? यथा 'गामानय शुक्लां दण्डेन' इत्यत्र गृहीतसङ्केतस्य पुरुषस्य एवं
१. साध्यधर्मत्वेन, क. साध्यधर्मवत्त्वेन नि. । अत्र सम्पादकेन 'सन्दिग्धसाध्यवत्त्वेन इति टीकाकारसम्मतः
पाठः' इति निर्दिष्टम् । २. सिद्धसाध्ये अ. १ किन्तु अ. १ पा टिप्पणे 'सिद्धसाधने इति पाठः' इत्युक्त्वा 'सिद्धसाध्ये' इति पाठस्य संशोधनं प्रदर्शितम् । ३. साध्याधिकरणत्वं क. नि. । १. निश्चितसाध्यानधिकरणत्वं क. नि. टीकायाम् । अत्र मूले तु 'निश्चितसाध्याभावाधिकरणत्वम्' इति क. नि. । मुद्रितपाठो वर्तते । स तु मितभाषिण्यसंमतः । ५. स इति अ. १ पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org