________________
६६
उपाधिश्च साधनाव्यापकत्वे सति साध्यसमव्याप्तिः ।। २२७ ।।
साधनेन हेतुना सह यो धर्मः अव्यापको भवति साध्येन सह समव्याप्तिर्भवति स उपाधिः । यथा 'वैधी हिंसा अधर्म्मसाधनं हिंसात्वात् ब्राह्मणहिंसावत्'; अत्र निषिद्धत्वमुपाधिः । अत्र साधनं हिंसात्वं तत् निषिद्धत्वेनाव्याप्तम् । यत्र यत्र हिंसात्वं तत्र तत्र निषिद्धत्वमिति नास्ति, वैधीहिंसायां हिंसात्वे सत्यपि निषिद्धत्वाभावात् । यत्र यत्र अधर्मसाधनत्वं तत्र तत्र निषिद्धत्वं यत्र यत्र निषिद्धत्वं तत्र तत्र अधर्मसाधनत्वमिति समव्याप्तिः । साधनाव्यापक उपाधिरित्युक्ते धूमानुमाने भाण्डादिमत्त्वमुपाधिः स्यात्तन्निरासार्थं साध्यव्यापक इति । साध्यव्यापक इत्युक्ते इन्धनादिमत्त्वमुपाधिः स्यात् तदर्थं साधनाव्यापकः । यत्र यत्र धमवत्त्वं तत्र तत्रेन्धनादिमत्त्वमिति साधनव्यापकः तन्निरासार्थं साधनाव्यापक इति । साधनाव्यापकः साध्यव्यापक उपाधिरित्युक्ते पक्षेतरत्वमप्युपाधिः स्यात् तन्निरासार्थं समेति ।।२२७।।
तोर्भेदत्रयमध्ये आद्यं केवलान्वयिनं लक्षयति
सप्तपदार्थी
पक्षव्यापकः सपक्षस्पर्शी विपक्षशून्योऽबाधितविषयोऽसत्प्रतिपक्षः केवलान्वयी ।। २२८ ।। यो हेतुः पक्षे व्याप्य वर्त्तते सपक्षे व्याप्य एकदेशे वा यो वर्त्तते विपक्षरहितश्च प्रमाणाबाधितश्च प्रतिपक्षरहितश्च केवलान्वयी । यथा अदृष्टादीनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात् करतलामलकवत्, व्यावृत्तिः स्वबुद्ध्या विधेया ।। २२८ ।।
पक्षव्यापकः सपक्षशून्यो विपक्षाद् व्यावृत्तोऽबाधितविषयोऽसत्प्रतिपक्षः केवलव्यतिरेकी
।।२२९।।
यो हेतुः पक्षे व्याप्य वर्त्तते, सपक्षरहित एव भवति विपक्षाद् व्यावृत्तश्चेत्यादिलक्षणः केवलव्यतिरेकी यथा सर्वं कार्यं सर्ववित्कर्तृपूर्वकं कादाचित्कत्वात् यन्नैवं न तदेवं यथा - आकाशादि
।।२२९ ।।
अन्वयव्यतिरेकिणं लक्षयति
पक्षव्यापकः सपक्षस्पर्शो विपक्षाद् व्यावृत्तोऽबाधितविषयोऽसत्प्रतिपक्षोऽन्वयव्यतिरेकी
।।२३० ।।
यो हेतुः पक्षे व्याप्य वर्त्तते सपक्षे व्याप्य एकदेशे वा यो वर्त्तते विपक्षाद् व्यावृत्तश्चेत्यादिलक्षणः सोऽन्वयव्यतिरेकी । यथा पर्वतोऽयं वह्निमान् धूमवत्त्वात् इत्यादि ।। २३० ।।
अथ पक्षं लक्षयति-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org