________________
२८
अथ आद्यं प्रत्यक्षं भिनत्ति——
प्रत्यक्षं सप्तप्रकारम् ||६२ ।।
'प्रत्यक्षं' साक्षाद्बोधव्याप्तम् । सप्त वक्ष्यमाणलक्षणाः प्रकारा यस्य तत् 'सप्तप्रकारम्' ।। ६२ ।।.
प्रकारानेव दर्शयति
षडिन्द्रियाणि ईश्वरश्चेति सप्त ।। ६३ ।।
चक्षुः - श्रोत्र - रसन-प्राण-स्पर्शन - मनोलक्षणानि 'षडिन्द्रियाणि' सप्तमश्च 'ईश्वरः' । ईश्वरसत्त्वे प्रमाणं प्रागुक्तमेव । 'रूपाद्युपलब्धिः करणसाध्याक्रियात्वाद् छिदिक्रियावद्' इति इन्द्रियसत्त्वे प्रमाणम् ।।६३।।
अथ द्वितीयभेदं विभजते—
सप्तपदार्थी
अनुमितिरपि त्रिविधा ।। ६४ ।।
'अनुमितिः' अनुमानं लिङ्गज्ञानमिति यावत् 'त्रिविधा' त्रिप्रकारा । तच्च व्याप्तिपक्षधर्मताविशिष्टं लिङ्गज्ञानमित्यग्रे लिङ्गज्ञानस्यानुमानप्रमाणता वक्ष्यते ।। ६४ ।।
ज्ञानस्य च सर्वत्र समानत्वात् त्रैविध्यं न सम्भवतीत्याशङ्क्याह
लिङ्गस्य त्रैविध्यात् ।।६५ ।।
‘लिङ्गस्य' हेतोः ‘त्रैविध्याद्' अनुमानमपि त्रिविधमुच्यते, कार्ये कारणोपचारात् ||६५।। त्रैविध्यमेव दर्शयति
अन्वयव्यतिरेकी' केवलान्वयी केवलव्यतिरेकी चेति ।। ६६ ।।
अन्वयश्च व्यतिरेकश्चान्वयव्यतिरेकौ । अन्वयव्यतिरेकौ विद्येते यस्य सः 'अन्वयव्यतिरेकी' । तत्र साध्यसामान्येन सह साधनसामान्यस्य व्याप्तिरन्वयः, यथा यत्र यत्र धूमवत्त्वं तत्र तत्र वह्निमत्त्वम् इति, यथा महानसे । साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिर्व्यतिरेकः, यथा यत्र यत्र वह्निमत्त्वं नास्ति तत्र तत्र धूमवत्त्वमपि न, यथा जलाशये । एवं यत्रान्वयव्यतिरेकौ द्वावपि भवतः स तुरन्वयव्यतिरेक्युच्यते यथा पर्वतोऽयं वह्निमान् धूमवत्त्वात् । यत्र धूमस्तत्र वह्निर्यथा महानसे तथा चाऽयं धूमवान् । तस्मात् धूमवत्त्वात् वह्निमानेव । धूमवत्त्वमस्तु वह्निमत्त्वं मास्तु, विपक्षे को बाध इत्याशङ्कायां यत्र वह्निमत्त्वं न, तत्र धूमवत्त्वमपि न, यथा जलाशये इति ।
Jain Education International
M
१. तच्च ईश्वर - घ्राण - रसन-चक्षुस्त्वक् श्रोत्र - मनोलक्षणम् क. नि. । २. केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि चेति क. नि. । ३. तत्र वह्नि अ. १ । ४. यत्र वह्नि अ. १ । ५ तत्र धू° अ. १ ।
For Private & Personal Use Only
www.jainelibrary.org