________________
सप्तपदार्थी
सोऽपि द्विधा भवति
कर्मजो विभागजश्चेति ।।५६ ।। तत्र 'कर्मजः' यथा हस्तपुस्तकविभागः । 'विभागजः' यथा हस्तपुस्तकविभागात् कायपुस्तक-विभाग इति ।।५६।।
एवं मूर्तामूर्त्तवृत्तीन् सामान्यगुणान् विभज्य, अथ मूर्तमात्रवृत्ती सामान्यगुणौ भिनत्तिपरत्वमपि कालकृतं दिकृतं च, अपरत्वमपि कालकृतं दिकृतं च ।।५७।।
परत्वमपरत्वं च द्विभेदं भवति । एक 'कालकृतम्' कालेन निमित्तीभूय कृतं कालकृतम्, दिशा निमित्तीभूयकृतं 'दिक्कृतम्'। कालकृतं परत्वं च यथा वयसा स्थविरे पुरुषे 'परोऽयम्' इति प्रत्ययनिमित्तं, बालके 'अपरोऽयम्' इति प्रत्ययनिमित्तमपरत्वम् । दिकृतपरत्वापरत्वे यथा दूरस्थे वस्तुनि ‘परमिदम्' इति प्रत्ययनिमित्तं परत्वं तथा अदूरे वस्तुनि अपरमिति प्रत्ययनिमित्तमपरत्वम् ।।५७।। इति सामान्यगुणान् विभज्य आत्मविशेषगुणमध्ये प्रकाशरूपं बुद्धिगुणं विभजते
बुद्धिरपि स्मृतिरनुभवश्च ।।५८ ।। बोधनं 'बुद्धिः' ज्ञान: पदार्थपरिच्छेद इत्यर्थः । सा च द्विविधा भवतीति गम्यते'स्मृतिरनुभवश्च' । तत्र स्मरणं 'स्मृतिः' पूर्वानुभूतवस्तुनश्चिन्तनम् । अनुभवनम् ‘अनुभवः' ।।५८ ।। अथ स्मृतेः भेदाभावात् द्वितीयमनुभवं भिनत्ति
अनुभवोऽपि प्रमा अप्रमा च ।।५९।। 'अनुभवः' द्विधा भवतीत्यर्थाद् गम्यते । 'प्रमा' वस्तुनः सम्यक् परिच्छेदः । न प्रमा ‘अप्रमा' वस्तुनोऽसम्यक्तया परिज्ञानम् ।।५९।। प्रमाया बहुवक्तव्यत्वादादौ अप्रमां भिनत्ति
अप्रमापि संशयो विपर्ययश्च ।।६।। तत्र 'संशयः' अनिश्चितं ज्ञानं यथा स्थाणुर्वा पुरुषो वेति । 'विपर्ययः' विपरीतज्ञानं यथा शुक्तिशकले कलधौतारोप इति ।।६०।। अथ प्रमाया भेदावाह
प्रमाऽपि प्रत्यक्षमनुमितिश्च ।।६१ ।। अक्षम् इन्द्रियं प्रति गतं 'प्रत्यक्षम्', अनुमननम् 'अनुमितिः' ।।६१ ।। १. परत्वं कालकृतं क. नि. । २ वो द्विविधः प्रमा क. नि. । ३. प्रभा प्रत्य क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org