________________
२६
समपदार्थी काशादिनिष्ठम् । तृतीयं 'दीर्घपरिमाणं' उच्चैस्तरता त्र्यणुकाद्याकाशादिवस्तुनिष्ठम् । चतुर्थं 'ह्रस्वपरिमाणम्' अतिनीचैस्तरता परमाणुव्यणुकनिष्ठम् ।
ननु अणु-ह्रस्वे परमाणुनिष्ठे महद्दीघे त्र्यणुकादिनिष्ठे । तत् किमिति परिमाणद्वयं नोक्तम् अणुमहदिति ?—परमाणुनिष्ठमणुपरिमाणं त्र्यणुकाद्याकाशपर्यन्तेषु वस्तुषु वर्तमानं महत्परिमाणमिति ? । सत्यम्, अणुत्वं विस्तारे तुच्छत्वम्', ह्रस्वं प्रलम्बत्वे तुच्छम्, महद् विस्तारेऽधिकं, दीर्घ प्रलम्बत्वेऽप्यधिकम् । येऽप्येते' घटादिषु अणुह्रस्वादिव्यवहाराः तेऽप्यौपचारिका एव । परमार्थतः अणुह्रस्वे परमाणुष्वेव व्यणुकेषु वा । लोकेऽपि अणुषु ह्रस्वमानीयतां, महत्सु दीर्घमानीयताम् इत्यादि अणुह्रस्वत्वयोः दीर्घमहत्त्वयोश्च भेदोपलम्भात् चतुर्विधत्वमेव, न द्वैविध्यम् ।।५१ ।। अथ तृतीयं सामान्यं गुणं भिनत्ति
. पृथक्त्वमेकाऽनेकवृत्ति ।।५२।। पृथक्त्वं द्विविधं भवतीति अर्थाद् गम्यते । कथम् ? एकम् ‘एकवृत्ति', द्वितीयं च 'अनेकवृत्ति' । तत्रैकवृत्ति यथा पूर्णकलशोऽयमितरेभ्यो घटपटादिभ्यो भिन्नो विलोक्यते । तथा अनेकवृत्ति यथा एतौ कलशौ इतरेभ्यो भिन्नौ, एते चेतरेभ्यो भिन्नाः । एकस्मादतिरिक्तस्यानेकत्वाद् अनेकवृत्तिपृथक्त्वं द्विपृथक्त्वं बहुपृथक्त्वं च भवति । तच्चापेक्षाबुद्धिजनितमेव, न सार्वदिकं भिन्नत्वेन विवक्षया एकवृत्तिपृथक्त्वस्यैवावस्थानावलोकनात् ।।५२ ।। अथ चतुर्थं सामान्यगुणं भिनति
संयोगो' द्विविधः ।।५३ ।। संयोजनं 'संयोगः' द्वयोः स्वावयवव्यापिनोः पृथग्भूतयोर्मेलनम् । स द्विविधो भवति ।।५३ ।। द्वैविध्यमेव दर्शयति
कर्मजः संयोगजश्चेति ।।५।। कर्मण उत्क्षेपणादेर्जातः ‘कर्मजः' । स च प्रयत्नचालितयोस्तालिकादिनिमित्तहस्ताद्योढूयोर्द्रव्ययोर्बहूनां मीलने वा भवति । संयोगादुक्तस्वरूपाज्जातः 'संयोगजः' । यथा हस्तपुस्तकसंयोगात् कायपुस्तकसंयोगः । न हि शरीरं पुस्तकेन सह संयुक्तं साक्षादस्ति । परम्परया संयोगोऽस्ति स संयोगजः संयोग इति ।।५४।। अथ पञ्चमं सामान्यगुणं विभजते
विभागो द्विविधः ।।५५।। विभजनं 'विभागः', संयुक्तयोर्द्वयोर्द्रव्ययोः पृथक्करणम् ।।५५।।
१. तुच्छं अ. २ । २. यद्येते अ. २ । ३. लोकोऽपि अ. २ । ४. गोऽपि क. नि. । ५. तालादि अ. २ । ६.
गोऽपि क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org