________________
सप्तपदार्थी
सुरभिरसुरभिश्च ।।१८।। तत्र 'सुरभिः' मिलदलिकुलव्याकुलबहुलपरिमलपटलकलितनलिनीदलान्तर्वर्तमान'हंस'सकाशकाचकर्पूरपूरकस्तूरिकादिषु वस्तुषु जेघ्रीयमाणो गन्धोऽभिधीयते । 'च' पुन: ‘असुरभिः' पूत्यादिसमवेत इति ।।४८।। प्रत्यक्षगुणेषु चतुर्षु द्रव्येषु वर्तमानं चतुर्थं गुणं स्पर्श भिनत्ति
स्पर्शः शीतोष्णानुष्णाशीतभेदात् त्रिविधः ।।१९।। 'स्पर्शः' स्पर्शनेन्द्रियेण प्रतीयमानः 'त्रिविधः' भवति । कुतस्त्रैविध्यम् ? 'शीतोष्णाऽनुष्णाशीतभेदात्'। तत्र शीतस्पर्शः पानीये । उष्णस्पर्शस्तेजसि । न उष्णः अनुष्णः, न शीतोऽशीतः, अनुष्णश्चाशीतश्चानुष्णाशीतः । स च पृथिव्यां वायौ च प्रतीयते । तत्र शीतोष्णौ यौ कदाचित् प्रतीयेते तौ संयुक्तसमवायादेव, न पुनः समवेतौ ते तत्रेति ।
ननु उष्णो न भवति तदा शीतो भवत्येव, न शीतश्चेदुष्णो भवत्येवेति द्वयोः परस्परविरुद्धत्वात् कथमनुष्णाशीत: स्पर्शः सम्भवति इति चेत्; न, परस्परविरुद्धयोरेकस्याभावेऽपरसद्भावानान्तरीयरकत्वाभावात् स्थलादौ जलानलयोः सहैवाऽभावदर्शनात् ।।४९।। एवं विशेषगुणान् विभत्र्य सामान्यगुणानां भेदमभिदधानः पूर्वं सङ्ख्यायाः सङ्ख्यामाह
सङ्ख्यापि" एकत्व-द्वित्व-बहुत्वभेदात् त्रिविधा ।।५० ।। 'सङ्ख्यापि' त्रिप्रकारा स्यात् । कुतः ? एकत्वेत्यादेः । एकत्वसङ्ख्या यथा एकोऽयं पुरुषः, एकमाकाशमित्यादिप्रत्ययजनयित्री । द्वित्वबहुत्वसङ्ख्ये पुनरपेक्षाबुद्धिजनिते एव । यथा द्वाविमौ पुरुषौ । द्वाभ्यामधिका त्रि-चतुः-पञ्चादिका यावद्गणनां कर्तुं पार्यते सा सर्वाऽपि बहुत्वान्तर्गता यथा बहवः पुमांसः ।
___ अत्र सार्वदिकी एकत्वसङ्ख्या एव स्वसमवायिकारणगतैकत्वसङ्ख्यातः समुत्पन्ना वर्वर्ति । द्वित्वबहुत्वसङ्ख्ये तु अपेक्षाबुद्धिरचितत्वात् कियत्कालभाविनी एव न सार्वदिकी । द्वयोर्बहूनां वा भिन्नत्वेन विवक्षया एकत्वस्यैवावशिष्टत्वात् ।।५० ।। द्वितीयसामान्यगुणभेदानाविःकरोति
परिमाणमणु-महद्-दीर्घ-हस्वभेदाच्चतुर्विधम् ।।५१ ।। एकम् ‘अणु' अतिस्तोकं विस्तारे परमाणुव्यणुकनिष्ठम् । द्वितीयं 'महत्परिमाणं' त्र्यणुकाद्या१. वर्ति अ. २ । २. हास. अ. २ । ३. स्पर्शस्तु क. नि. । १. सङ्ख्या एकत्व क. नि. । ५. विविधम् क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org