________________
२४
समपदार्थी
गौरित्यादिप्रकारेणोन्मीयमानम् । 'चित्रम्' अनन्तरोक्तैः षड्भी रूपैरसमवायिकारणत्वेनारब्धं चित्रपटाति-गतं रूपमिति । अत्र केचित्
"एकं चेत्तत्कथं चित्रं चित्रं चेदेकता' कुतः ।
एकं च तच्च चित्रं चेत्येतच्चित्रकरं वचः ।।" इत्याहुः । तन्न किञ्चित्, प्रमाणोपलब्धस्य व्यपोढुमशक्यत्वात् । प्रतीयते च चित्ररूपम् । अनेकानि रूपाण्येवैकत्र चित्राकारेण प्रतीयन्ते इति चेत; न, चित्रपटादि एकरूपाधिकरणं चक्षुर्ग्राह्यत्वात्, क्षीरादिवत् इत्यनेन तद्गतरूपस्यैक्यसिद्धेः । न च तत्र' केवलं सितं रूपम, तस्यैव केषुचिदवयवेषु कालादिवर्णानामप्यवभासाद् । तत्तदवयवगतानि विलक्षणानि रूपाणि सितादीत्येव प्रतीयन्ते, न पुनश्चित्रं नाम रूपान्तरमस्तीति चेत; न, तदभावेऽवयविनो नीरूपत्वप्रसङ्गः । तथा च नीरूपद्रव्यत्वाच्चक्षुरग्राह्यत्वप्रसङ्गः । गृह्यते च 'चित्रपट एषः' इत्युल्लेखेनाऽवयवी । तस्मात्तत्रैकं चित्ररूपमस्तीति स्थितम् ।।४५।। रूपेण समानभेदत्वात्तदनन्तरमुपन्यस्तस्य रसस्य द्वितीयगुणस्य भेदानाविःकरोति
रसोऽपि मधुर-कटु-तिक्त-कषायाम्ल-लवण-चित्रभेदात् सप्तविधः ।।६।।
'रसः' रसनया गृह्यमाणो गुणः । 'अपि' शब्दो यथा रूपं भेदवत् तथा रसोऽपि भेदभिन्न इति समानताख्यापनार्थः । एवं पूर्वत्र यथा स्वकीयपूर्वतनपदार्थेन तुल्यत्वसूचनार्थोऽपिशब्द 'आपोऽपि' इत्यादिषु, तथोत्तरत्र 'गन्धोऽपि' इत्यादिष्वपिशब्दादयमेवार्थो ज्ञेयः । स सप्तप्रकारो भवति । तत्र 'मधुरः' मिष्टः । 'कटुः' निम्बकाष्ठादिगतः । 'तिक्तः' तीक्ष्णो राजी-विश्वादिगतः । 'कषायः' बब्बूलवृक्षादित्वगादिसमवेतः । 'अम्लः' बीजपूरादिष्वासाद्यमानः । 'लवणः' लवणादिषु उन्नीयमानः क्षाराऽपरपर्यायः । 'चित्रः' किञ्चन मधुरत्वेन किञ्चित् तिक्ताकारेण प्रतीयमानः सुधादिषु हरीतक्यादिषु च समवेतो रस इति । चित्ररसैक्यं च पूर्वोक्तयुक्तिभिः साधनीयमिति ।।४६ ।।
___ पृथिव्यप्तेजसां विशेषगुणं रूपं निरूप्य पृथिव्यनिष्ठं रसं च विभज्य पृथिवीमात्रनिष्ठं गन्धं विभजते
. गन्धोऽपि द्विविधः ।।१७।। 'गन्धः' घ्राणेन्द्रियेणाऽऽघ्रायमाणो गुणः । द्वे विधे प्रकारौ यस्य स द्विविधः ।।१७।। तावेव दर्शयति
१. चेन्मता अ. २ । २. निराकर्तुम् अ. १ पा. टि. । ३. रूपस्यैकासिद्धेः अ. १ । ४. चित्रपटे अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org