________________
सप्तपदार्थी
२३
ब्रह्म न, किन्तु किञ्चन नानाऽनेकप्रकारमस्तीति प्रामाणिकव्याख्यानान्न श्रुतिविरोधः ।।४२।। अथ प्रकृतमनुसन्धीयते । अथ नवमद्रव्यस्य मनसो भेदानभिदधाति
मनांसि प्रत्यात्मनिष्ठत्वादनन्तान्येव ।।१३।। आत्मानमात्मानं प्रति प्रत्यात्म, तत्र निष्ठत्वं विशिष्टसंयोगत्वम्, न समवेतत्वम्, नित्यद्रव्याणां क्वचित्समवायाभावात् । नापि संयोगमात्रं सर्वात्मनां विभुत्वेन समस्तमूतैः संयोगित्वात् समस्तमनसां सर्वात्मभिस्तुल्यं योगित्वात् 'इदं मनोऽस्यात्मनः' इति व्यवस्थाया अभावप्रसङ्गात् । तस्माददृष्टकृतः प्रतिनियतात्मनि सर्वविषयप्रतीतिहेतूनां मनसां संयोगविशेषो निष्ठत्वं विशिष्टसंयोगत्वं वा, तस्मान्मनांसि अनन्तानि, प्रत्यात्मनिष्ठत्वात् शरीरवत् । न च हेतोरसिद्धिः, मनांसि प्रत्यात्मभिन्नानि, सर्वविषयज्ञानोत्पादकत्वात् शरीरवत; इन्द्रियत्वाद्वा, चक्षुर्वत् ।
मनःसत्त्वे प्रमाणम्-सुखादिप्रतीतिः करणसाध्या, क्रियात्वाच्छिदिक्रियावत् । न च तत्र चक्षुरादीनामवकाशोऽस्ति तेषामनात्मविषयत्वात्, तस्माद्यत्तत्र करणं तन्मन इति ।।४३।। एतानि नवापि द्रव्याणि प्ररुप्य यानि नित्यानि चानित्यानि तानि दर्शयति
आकाशादिपञ्चकं नित्यमेव, अपरं नित्यानित्यम् ।।१४।। आकाश-काल-दिगात्मनो लक्षणं 'पञ्चकम्' 'नित्यमेव' अविनाश्येव । प्रमाणं चात्रआकाशादिपञ्चकं नित्यम्, निरवयवद्रव्यत्वात्, परमाणुवत् । एवकारः-आकाशादिपञ्चकं नित्यमेव, नानित्यमिति निर्धारणार्थः । 'अपरम्' आकाशादिपञ्चकाद् व्यतिरिक्तं पृथिव्यप्तेजोवायुलक्षणं चतुष्टयं 'नित्यानित्यम्' । परमाणुलक्षणं नित्यं कार्यलक्षणं व्यणुकाद्यनित्यम् ।।४४।।
एवं नवानामपि द्रव्याणां भेदानभिधाय नित्यानित्यविभागं च संसूच्य द्वितीयपदार्थस्य चतुर्विंशतिभेदभिन्नस्य गुणस्य भेदानभिदधानोऽतिस्पष्टतरप्रतीतिजनकचक्षुर्मात्रग्राह्यत्वेन पूर्वमुपन्यस्तं रूपं भिनत्ति
रूपं सित-लोहित-हरित-कपिल-पीत-कृष्ण-चित्रभेदात्सप्तविधम् ।।१५।।
'रूपम्' वक्ष्यमाणलक्षणं सप्तप्रकारं भवतीति शेषः । तत्र 'सितं' शुक्लापरपर्यायं क्षीरनीरडिण्डीरहीरादिषु वस्तुषु प्रतीयमानं गृह्यते । 'लोहितं' रक्तं विद्रुमद्रुमपल्लवादिगतम् । 'पीतं' हरिद्रादिषूपलभ्यमानम् । 'कृष्णं' कालमञ्जनादिषु समवेतम् । 'हरितं' नीलं हरित्कायादिवर्णः । 'कपिलं' कपिला
१. मनस्तु प्रत्यात्मनिष्ठत्वादनन्तम् क, नि. । २. एकैकात्मनि अ. १ पा. टि. । ३. नित्यानित्यं च क ।
अन्यन्नित्यमनित्यं नि. । ४. सित-लोहित-पीत-कृष्ण-हरित-कपिश-चित्रभेदात् क. नि. । जिनवर्धनीक्रमस्तु सित-लोहित-पीत-कृष्ण-हरित-कपिश-चित्र इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org