________________
सप्तपदार्थी
___ तथा केवलो व्यतिरेकरहितोऽन्वयो विद्यते यस्य सः 'केवलान्वयी', यथा अदृष्टादीनि कस्यचित् प्रत्यक्षाणि, प्रमेयत्वात् करतलकलितामलकवत् । कस्यचिदप्रत्यक्षस्य वस्तुन एवाभावात् व्यतिरेको नास्ति ।
तथा केवलोऽन्वयरहितो व्यतिरेको विद्यते यस्य सः 'केवलव्यतिरेकी', यथा सर्वाणि कार्याणि सनिमित्तकानि कादाचित्कत्वात् । यत्सनिमित्तकं न भवति, तत्कादाचित्कमपि न भवति, यथाऽऽकाशम् । अत्र सर्वेषां कार्याणां सनिमित्तकत्वे साध्ये सर्वेषां पक्षीकृतत्वेन सपक्षाभावादन्वयो नास्तीति ।।६६ ।। अथ पुनः लिङ्गस्यैव प्रकारान्तरमाह
तदपि' लिङ्गं स्वार्थ परार्थं च ।।६७।। 'तदपि' अन्वयव्यतिरेकिकेवलान्वयिकेवलव्यतिरेकिरूपं त्रिविधमपि 'लिङ्ग' 'स्वार्थ' भवति, त्रिविधमेव 'परार्थं' भवति । तत्र स्वस्य प्रमातुरेवार्थः प्रयोजनं यस्मात्तत् लिङ्गं 'स्वार्थम्' यथा गच्छंतः पुरुषस्य धूमज्ञानादितरवचनानपेक्षं वह्निज्ञानं भवति । प्रमेयत्वादिज्ञानात्कादाचित्कत्वादिज्ञानाच्च इतरवचनानपेक्ष कस्यचित् प्रत्यक्षत्वसनिमित्तकत्वयोः ज्ञानं भवति तदपि 'स्वार्थम्' । तथा परस्यार्थः प्रयोजनं यस्मात् तत् ‘परार्थम्'। अथवा परस्मै प्रमातुरन्यस्मै प्रयोजनं यस्य तत्परार्थम; यथा गच्छतोयोः पुरुषयोरेकस्य धूमज्ञानाद्वह्रिज्ञाने जाते परप्रबोधाय वक्ति यत् 'प्रदेशोऽयं वह्निमान् धूमवत्त्वात्' इत्यादि ।।६७।। एकस्यैवाऽनुमानस्याङ्गाभावात् परार्थलिङ्गस्याङ्गान्याह
पराङ्गानि प्रतिज्ञा-हेतूदाहरणोपनय-निगमनानि ।।६८।। परार्थस्य लिङ्गस्य 'अङ्गानि' अवयवाः । यथा करचरणशिरोग्रीवाद्यैरवयवैरेकोऽवयवी भवति, एवं प्रतिज्ञाद्यङ्गैर्मिलितैरेकं परार्थलिङ्गं भवति । तत्र 'प्रतिज्ञा' पक्षपरिग्रहो यथा-शब्दोऽनित्यो भवितुमर्हति । हिनोति गमयति बलादप्रत्यक्षमर्थमिति 'हेतुः', यथा कृतकत्वात् । उदाह्रियतेऽविप्रतिपन्नोऽर्थोऽस्मिन्निति 'उदाहरणम्' दृष्टान्तकथनम्, यथा यत् कृतकं तदनित्यं दृष्टं यथा घटः । उपनीयते दृष्टान्तवत् पक्षे हेतुः सम्बध्यतेऽनेनेति 'उपनयः', यथा-तथा चायं कृतकः, यथा घटः कृतकस्तथा शब्दोऽपि कृतक इत्यर्थः । निगम्यते निश्चीयते पक्षे साध्यमनेन वचनेनेति 'निगमनम्' यथा तस्मात्कृतकत्वादनित्य एव इति । एतानि परार्थाङ्गानि भवन्ति, एतैः परार्थानुमानस्य सम्पूर्णत्वात् ।।६८।।
अथ स्वार्थपरार्थयोरङ्गान्याह
१. तदपि स्वार्थ क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org