________________
सप्तपदार्थी
कारणम् । वृक्षादिकम्पेन च सोऽनुमीयते । यथा-वृक्षादिकम्पः स्पर्शवद्रव्यसंयोगजन्यः, विशिष्टकम्पत्वात् जलकल्लोलाहतपङ्कजादिकम्पवत् । विशिष्टशब्देन भूकम्पादि व्यवच्छिद्यते । न च तत्राकाशादयो' हेतवोऽस्पर्शवद्रव्यत्वात् । न च पृथिव्यादयः, तदोपलभ्यमानस्पर्शास्पदस्य नीरूपत्वात् । अतस्तत्कम्पे यन्निमित्तं कारणं स वायुः ।।३३।। चतुर्थं प्राणस्वरूपं निरूपयति
प्राणश्च शरीराभ्यन्तरचारी ।।३४।। 'च'शब्देन न केवलं वायुः पृथिव्यादिवच्छरीरेन्द्रियविषयरूप एव किन्तु प्राणोऽपि तद्भेद इति दर्शयति । 'प्राणः' श्वासोच्छ्वासादिलक्षणः । शरीरं भोगायतनम् । तन्मध्ये गमनागमनकारी ।।३४।। नन्यपानवायुस्तद्विपरीतत्वात् पञ्चमो भेदः किमिति नावादीत्याशङ्कयाह
स एव क्रियाभेदादपानादिसञ्ज्ञां लभते ।।३५।। ‘स एव' प्राणलक्षणो वायुरेव । एवकारः कार्यवायोनिषेधयति । 'क्रियाभेदात्' सकृद्द्वारनिर्गमनादिलक्षणक्रियाविशेषादपानादिसञ्ज्ञां प्राप्नोति । आदिशब्दादुद्गारादि' ।।३५।। ।
___ ननु विषयस्तु वृक्षादिकम्पजनको भोक्तुर्भोगयोग्य एवोक्तस्ततः स्तिमितवायुः पञ्चमो भविष्यतीत्याशङ्का तिरस्करोति- ४
स्तिमितवायुस्तु परमाणुसमूह एवानारब्धद्रव्य इति ।।३६ ।। 'स्तिमितवायुः' निश्चलवायुः । सोऽनारब्धद्रव्यः । आरब्धं स्वसमवेतं कार्यरूपद्रव्यं येन स तथा-ऽऽनारब्धद्रव्योऽनारब्धद्रव्यः, परमाणूनां समूहो निचयः । एवकारेण प्रकारान्तरत्वं निराकरोति । यथा बहुभिर्मृत्खण्डैरनारब्धैकगोलकः पुञ्जः प्रमीयते तथाऽयमपि ।।३६।। स्पर्शवन्ति चत्वारि भूतान्युक्त्वा पञ्चमभूताऽऽकाशभेदान् दर्शयति
आकाशस्तु घटाकाशादिभेदभिन्नोऽनन्त एव ।।३७।। घटेन सह संयुक्तः आकाशः 'घटाकाशः' । आदिशब्दात् पटाकाशादिभिः प्रकारैः मूर्तद्रव्यैर्भिन्नैर्भिन्नैरनन्तैः सह संयोगोपाधिवशादेकोऽपि अनन्तभेदभिन्न इत्युच्यते । यथैकोऽपि विपुलस्फटिको नीलपीतश्वेतादिवस्तुसन्निकर्षोपाधिवशान्नीलपीतश्वेताद्याकारेणावभासते तथाऽयमपि।।३७।।
. अनुक्रमप्राप्तं षष्ठं द्रव्यं कालं भिनत्ति
१. वृक्षादिकम्पे अ. १ पा. टि. । २. प्राणस्तु क. नि. । ३. निर्गमलक्षण अ. १ । १. मुद्गरादि अ. २ । ५. अत्र 'एवोक्तस्तस्तिमि' इति द्वयोरपि प्रत्योः पाठस्तथापि अर्थानुसन्धानं कृत्वा संशोधनं कृतम् । ६. इति क. निपुस्तकयो स्ति ।
Jain Education International
For Private & Personal Use Only
- www.jainelibrary.org