SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सप्तपदार्थी आद्यभेदस्य प्रभेदानामभावाद् द्वितीयं भिनत्ति स' च शरीरेन्द्रियविषयप्राणलक्षण:२ ॥३०॥ 'स च' कार्यलक्षणो वायुः । 'लक्षण'शब्दस्य सर्वत्राभिसम्बन्धाच्छरीरलक्षण इन्द्रियलक्षणो विषयलक्षणः प्राणलक्षणश्चतुर्विधो भवति ।।३०।। तत्राद्यं भेदं दर्शयति शरीरं वायुलोके ।।३१ ।। स्थानविशेषे 'शरीरम्' भोगायतनं पार्थिवावयवोपष्टम्भाद् विशिष्टक्रियोपयोग्यं वायवमस्तीति एतदाप्यादिवायवान्तं शरीरमागमादेव प्रतीयते ।।३१।। द्वितीयभेदमाह इन्द्रियं स्पर्शव्यञ्जकम् ।।३२ ।। 'इन्द्रियम्' प्रत्यक्षप्रतीतिजनकं 'स्पर्शस्य' स्पर्शनेन्द्रियमात्रग्राह्यगुणस्य 'व्यञ्जकम्' प्रकटीकरणमर्थात् स्पर्शनेन्द्रियम् । तद्वायवम् । तत्र-प्रमाणम्, स्पर्शनेन्द्रियं वायवम्, चक्षुरग्राह्यत्वे सति स्पर्शज्ञानानुमेयत्वात्, सम्प्रतिपन्नवायुवदिति । अस्यार्थः' स्पर्शज्ञानानुमेयं स्पर्शनेन्द्रियम्-यथा-स्पर्शज्ञानं करणसाध्यम, क्रियात्वाच्छिदिक्रियावदिति । वायुरपिस्पर्शज्ञानेनानुमीयते यथा-इदं स्पर्शज्ञानं स्पर्शवद्-द्रव्यस्पर्शविषयम, स्पर्शज्ञानत्वात् घटस्पर्शज्ञानवत् । पृथिवीजलपावकानां चक्षुर्ग्रहणयोग्यत्वाद् विशेषणेन' व्यवच्छेदः । परमाणुढ्यणुकानां तदपरेषामाकाशादीनां विशेष्येणेति । ननु वायुः प्रत्यक्ष एव, प्रत्यक्षस्पर्शवत्वात् घटवद् इति चेत्। न, स्पर्शनेन स्पर्शमात्रस्यैव ग्रहणं न पुनर्वायोः प्रत्यक्षद्रव्यस्य रूपवत्त्वाव्यभिचारेण रूपवत्त्वप्रसङ्गात् । न च वायू रूपवान् । वायुर्नीरूपः, प्रत्यक्षगुणत्वे सति चक्षुरग्राह्यत्वादाकाशवत् । कथं तर्हि 'वायुरयं वाति' इति कुतः प्रतीतिरिति चेत् ? तत्राभ्यासपाटवाद् व्याप्तिग्राहकप्रमाणनिरपेक्षमेव तत्कालनुमीयते । यत्पुनस्तत्प्रत्यक्षत्वेऽनुमानमुपन्यस्तं तत् 'शीतो वह्निर्दाहकत्वाद्धिमवदिति'वदनुभवबाधितत्वात्कालात्ययापदिष्टम् । तस्माद्वायुरप्रत्यक्षोऽरूपद्रव्यत्वाद् गगनवदिति ।।३२।। तृतीयं भेदमाख्याति - विषयस्तु वृक्षादिकम्पजनकः ।।३३।। 'विषयः' भोक्तुर्भोगोपयोगी 'वृक्षादिकम्पः' पादपपदार्थक्रियाविशेषः, तस्य 'जनकः' निमित्त १. कार्यरूपः क. सोऽपि नि. २. विलक्षणः अ. २ । ३. चवायवं अ. २ । १. प्रमाणस्य अ. १ पा. टि. । ५. चक्षुरग्राह्यत्वरूपेण अ. १ पा. टि. । ६. स्पर्शज्ञानानुमेयत्वरूपेण विशेष्येण अ. १ पा. टि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy