________________
सप्तपदार्थी
तृतीयभेदं विषयमाह
विषयो भौमदिव्यौदर्याकरजरूपः ।।२७।। 'विषयः' आत्मोपभोगयोग्यश्चतुर्विधो भवति । तत्र भूमौ भवो 'भौमः' । स च काष्ठादिप्रज्वालको वह्निरुच्यते। दिवि गगने भवो 'दिव्यः' । स च सूरविद्युदादिः । उदरे जठरे भव 'औदर्यः' । स चाहारितस्याहारस्य मलरसधातुभावेन परिणामकारकः । आकरजः सुवर्णरुप्यादिरूपः आकरात् स्थानविशेषाज्जातः ‘आकरजः'।
ननु सुवर्णादि तैजसं न भवति, आकरजत्वात्, लवणवत् इति चेत् । न, वज्राकरादिसमुद्भूतरत्नेषु तमस्युद्योतकरेषु व्यभिचारात् । रत्नेष्वपि न तैजसत्वमिति न वाच्यम्, विमतानि' रत्नानि तैजसानि, अन्यप्रकाशानपेक्षप्रकाशत्वात्, प्रदीपवत् ।
केचित् पुनरेवमाहुः-सुवर्णादि तैजसं न भवति, गुरुत्वात्, लोष्टवदिति । तदपि न सारम्, अङ्गारावस्थाग्नौ व्यभिचारात् । न तत्राग्निसमवेतं गुरुत्वं किन्तु पार्थिवकाष्ठेन्धनसमवेतमेव संयुक्तसमवायात् तत्रोपलभ्यते इति चेत् । तदत्रापि समानम् । सुवर्णादिषु प्राणिनामदृष्टवशेन' पार्थिवावयवोपष्टम्भादनुद्भूतरूपस्पर्शेषु संयुक्तसमवायात् पार्थिवावयवगतं प्रतीयत इति। तस्माद् गुरुत्वं तत्रासिद्धम् ।
सुवर्णस्य तैजसत्वसिद्धौ किं प्रमाणमिति चेत् ? उच्यते-सुवर्णादि पार्थिवं न भवति, नैमित्तिकद्रवत्वे सत्यपि अत्यन्तमग्निसंयोगेनादह्यमानत्वात् । यत्पुनः पार्थिवं तन्नैमित्तिकद्रवत्वे सति अत्यन्तमग्निसंयोगेन दह्यते यथा घृतादि । न तथेदम् । तस्मात् पार्थिवं न भवत्येवेति केवलव्यतिरेकिणा हेतुना तस्य पार्थिवत्वनिषेधः। नाप्यं सुवर्णादि, सांसिद्धिकद्रवत्वरहितत्वात् । ततश्च सुवर्णादि तैजसम, रूपवत्त्चे सति पार्थिवाप्यत्वरहितत्वादग्निवदिति ।।२७।। अथ चतुर्थद्रव्यवायुभेदान् व्यनक्ति
वायुरपि नित्योऽनित्यश्च ।।२८।। 'अपि' शब्दाद् यथा पृथिव्यादयो नित्यानित्यभेदाद् द्विविधास्तथा 'वायुरपि' ।।२८।। कोऽसौ नित्यः को वाऽनित्य इत्याह
___ परमाणुलक्षणो नित्यः कार्यरूपस्त्वनित्यः' ।।२९।। 'लक्षण'- 'रूप' शब्दयोः समानार्थताख्यापनार्थं द्वयोरूपादानम् ।।२९।।
१. विवादापन्नानि अ. १ पा. टि. । २. पुण्यवशेन अ. १ पा. टि. । ३. सुवर्णादिषु अ. १ पा. टि. । १. स्वाभाविक
अ. १ पा. टि. । ५. कार्यलक्षणोऽनित्यः क. नि. ।
Jain Education International
For Private & Personal Use Only
· www.jainelibrary.org