________________
सप्तपदार्थी
अत्र प्रतिसमाधिमभिदध्महे—भवद्भिर्यदुक्तं चक्षुषोऽप्राप्यकारित्वं तन्न, कुड्यादिव्यवहितस्य सर्वथा प्रकाशकत्वाभावात् । यत्पुनः स्फटिककाचकुम्पादिव्यवधानेषु सत्स्वपि तदन्तर्गतस्यावभासः, स किल तत्संयुक्तभास्वरकतिपयतेजोऽवयवसहकृतैश्चक्षुःकिरणैः पार्थिवावयवाप्रतिहतैस्तदन्तःप्राप्तैरेव कृतः, न पुनरप्राप्तैः । अतः कथं व्यवहितत्वम् ? अन्यथा सर्वत्रापि कथं न तदवभासः ?
व्यवधानाव्यवधानयोरविशेषात्, योग्यताया नियामिकाया' अवर्तनादिति चेत्। न, मलाविले काचकुम्पकादौ कथं न तदवभासः ? तत्र योग्यता नास्तीति चेत् । केयं स्वेच्छाचारिता भवताम् ? तत्र विद्यमानाऽपि योग्यता मलाविलत्वे कुत्र गतेति ? अथैवं ब्रूषे-चक्षुःकिरणानामन्तःप्रवेशे काचकुम्पकादौ छिद्रपातप्रसङ्गः, तैश्च जलबिन्द्रादि निःसरेदिति । तन्न, प्रदीपप्रकाशादेरप्यप्राप्यकारित्वप्रसङ्गात् । तस्यापि पूर्वं बहिर्वर्तमानस्यान्तःप्रवेशे छिद्रपातादिप्रसङ्गस्य तुल्यत्वात् । न चालोकं सहकारिणं विनैव तत्प्रत्ययः । न च काचकुम्पकान्तरे प्रकाशान्तरमस्ति ।
नन्यालोकः सहकार्येव न भवति, योग्यतामात्रापेक्षत्वात् प्रत्ययस्य इति चेत् । न, महान्धकारप्रसारोपवरकोदरमन्तरापि कुतो न तदवभासः, एकमालोकमृतेऽपरेषां सर्वेषां प्रत्ययकारणानां यथावस्थितत्वात् ? तस्माच्चाकचक्यावभासमानतेजोवयवसहकृतेन तदन्तर्गतेनालोकेन पानीयादेः प्रत्ययो जन्यते नान्यथैवेति ।
किञ्च, न सूक्ष्माणां तेजोवयवानां छिद्रपातित्वं दृष्टम्, तप्तपथसि तेजोवयवानां समागमेपि स्थाल्यादौ छिद्रपाताभावात् । तस्मान्न ते तेजोऽवयवा नियमेन प्रविशन्त: छिद्रपातका भवन्ति इति प्रसङ्गश्चङ्ग इति। यत्पुनः बाह्येन्द्रियत्वं विकल्पितं तत्र भवदुक्तविकल्पातिरिक्तस्यैव मनोव्यतिरिक्तेन्द्रियत्वस्याङ्गीकारः । तथा च न कोऽपि दोषपोषः । यच्चावाचि व्यवहिताप्रकाशकत्वे दूषणं तद् अनन्तरोक्तयुक्तिभिः पराभूतम् । यः पुनश्चक्षुषस्तैजसत्वसाधने रूपचक्षुःसन्निकर्षेण सह व्यभिचारो दर्शितः सोऽपि न सविचारः । प्रकाशकत्वं किल प्रकाशकरणत्वम्, तन्न सन्निकः सम्भवति तथाव्यवहाराऽभावात्, अवान्तरमेव च जायमानत्वात् । यथा पुरुषः कठोरधारेण वृक्षं छिनत्ति न तु कुठारवृक्षसन्निकर्षेणेति व्यवह्रियते, तथा प्रमाता चक्षुरादिना रूपपदार्थं प्रमिणोतीति, न तु चक्षुरूपसन्निकर्षेण । यथा वा वह्निना काष्ठादि दह्यते न पुनरवान्तरमेव जायमानया ज्वालया, तथा प्रमातेत्यादि । नाप्यञ्जनेऽनैकान्तिकः, तस्य चक्षुस्तीक्ष्णतामात्रोपयोगित्वात् । परम्परयाऽपि कारणत्वे प्रकाशकत्वाङ्गीकारे शरावसम्पुटस्यापि तत्प्रसङ्गः । न चैवं व्यवहारोऽस्ति, तस्मान्नाञ्जनं प्रकाशे कारणमिति । अत्रानुमितियथारूपचक्षुःसन्निकर्षाञ्जने रूपप्रकाशे करणं न भवतः, अभास्वरत्वे सति अप्रमाणत्वात् घटादिवत्; अतैजसत्वाद्वा । पूर्वापरहेतू' न, जैनवैशेषिकयोर्वादिप्रतिवादिनोरसिद्धौ । यच्चक्षुषोऽतैजसत्वेऽनुमानं तत्तस्याप्रत्यक्षत्वे भास्वरं रूपमभास्वरं वास्तीति सन्देहात् सन्दिग्धव्यभिचारित्वान्न साध्यसाधकम् । एवं युक्तयो वर्तन्ते । तत्त्वं पुनस्तत्त्वविदो विदन्तीति प्रकृतं प्रस्तूयते ।।२६।।
१. प्रत्युत्तरं कथयामः अ. १ पा. टि. । २. निश्चायिकायाः अ. १ पा. टि. । २. पुनर्युक्त्यन्तरमाह अ. १ पा.
टि. । ४. प्रकाशकत्वस्य अ. १ पा. टि. । ५. हेतून अ. २ । ६. रसिद्धेः अ. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org