________________
सप्तपदार्थी
शरीरमादित्यलोके ।२५।।
ननु तस्य शरीरस्य तैजसत्वेन दहनात्मकत्वापत्त्या नोपभोगादिसामर्थ्यं स्याद, अङ्गारादिवद् इति चेत्, न, पार्थिवावयवानां तदुपष्टम्भकानामङ्गीकारात् ।।२५।। द्वितीयप्रकारं प्रकाशयति
इन्द्रियं रूपव्यञ्जकम् ।।२६।। 'रूपस्य' शुक्लपीतनीलादिभेदभिन्नस्य 'व्यञ्जकम्' प्रकाशकं यद् ‘इन्द्रियम्' अर्थाच्चक्षुस्तैजसम् । तत्र प्रमाणम्-चक्षुस्तैजसम, रूपादिषु मध्ये रूपमात्रप्रकाशकत्वात्, प्रदीपवत् । न च तेजसा दहनात्मकत्वात् चक्षुः स्वाश्रयं दह्यात् नापि प्राप्यकारित्वेन, यत्र प्रकाशकत्वेन प्राप्त तत्काष्टादिवस्तु प्रज्वालयेत्, प्राणिनामदृष्टवशेन अनुद्भूतस्पर्शस्यैवोत्पादात् । यथा प्रदीपालोकः प्राणिनामदृष्टवशेन अनुद्भूतस्पर्श एवारभ्यते। ततो न स्वप्रकाश्यं दहतीति ।
ननु चक्षुस्तैजसं न भवति, अप्राप्यकारित्वान्मनोवत् । न चात्र हेतोरसिद्धिः; चक्षुरप्राप्यकारि, व्यवहितस्यापि प्रकाशकत्वान्मनोवत् । न चाऽत्र व्यवहितस्यापि' प्रकाशकत्वं न सिद्धं काचकुंथ (कुम्प)क स्फटिकश(शि)म्पलादिव्यवहितस्य निर्मलसलिलादेः पदार्थसार्थस्य प्रकाशदर्शनात् । अथ चक्षुः प्राप्यकारि, बाह्येन्द्रियत्वाजिह्वावत् इति सत्प्रतिपक्षत्वं ब्रूषे । तन्न, किमिदं बाह्येन्द्रियत्वं नाम ? बाह्यार्थग्राहकत्वं वा, बाह्यकारणजन्यत्वं वा, बहिर्देशावस्थायित्वं वा ? न तावदाद्यपक्षप्रक्षेपः, सरित्सरोवरप्रवरमन्दरमन्दिरादिग्राहकेन मनसि व्यभिचारात् । तथापि 'मनसा मेरु गच्छति' इति लोकोक्तिः । नापि द्वितीयः, बाह्यपदस्य व्यवच्छेद्याभावेन हेतोव्यर्थविशेषणासिद्धिप्रसङ्गात् । व्यवच्छेद्यस्य मनसोऽप्यात्मनो बाह्येन पुद्गलेन जन्यमानत्वात् । नापि तृतीयः, बहिर्देशो विषयः, शरीरबहिर्भागो वा । आद्य विषयाश्रितत्वम, विषयोन्मुखी प्रवृत्तिर्वा ? न तावद्विषयाश्रितत्वं, तस्य उभयवादिभ्यामनङ्गीकारात् । नापि द्वितीयः, विषयोन्मुख्याः प्रवृत्तेरस्माभिरनङ्गीकारेण हेतोः प्रतिवाद्यसिद्धेः । नापि शरीरबहिर्भागः, चक्षुषो रूपप्रतीतेः कारकस्य सर्वथाऽदृष्टत्वेन कुत्राप्यस्तीति सन्देहात हेतोः संदिग्धव्यभिचारित्वात् । तस्मान्न बाह्येन्द्रियत्वं प्राप्यकारित्वं साधयति । यच्च प्राप्यकारित्वसाधनाय व्यवहिताप्रकाशकत्वाद् इत्युक्तं तदसम्बद्धं काचकुम्पकादिव्यवहितस्यापि वस्तुनोऽवभासाद् हेतोरसिद्धतासम्बन्धबाधितत्वात्। यच्चावाचि चक्षुषस्तैजसत्वसाधनम्, तदपि सबाधनं रूप-चक्षुःसन्निकर्षेण रूपादिषु मध्ये रूपमात्रप्रकाशकेन व्यभिचारात् । द्रव्यत्वविशेषणाङ्गीकारे तु अञ्जनेऽनैकान्तात् । ततश्चक्षुरतैजसमेव, अभास्वररूपत्वान्मृद्वदिति ।
१. स्वप्रकाशार्हम् अ. १ पा. टि. । २. आच्छादितस्यापि अ. १ पा. टि. । ३. रूपरसगन्धस्पर्शशब्देषु अ.
१ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org