________________
सप्तपदार्थी
इन्द्रियं रसव्यञ्जकम् ।।२०।। आप्यम् ‘इन्द्रियम्' 'रसस्य' रसनेन्द्रियग्राह्यस्य गुणस्य 'व्यञ्जकम्' प्रतीतिकरणम्, अर्थात् रसनेन्द्रियम्। तस्याऽऽप्यत्वे प्रमाणमिदम्-रसनेन्द्रियमाप्यम्, भौतिकत्वे सति पृथिवीपावकपवनाकाशानन्तर्गतत्वात् समुद्रादिवत् । न चाऽत्र विशेषणाऽसिद्धिः, बाह्येन्द्रियत्वेन तत्सिद्धेः समर्थितपूर्वत्वात् । विशेष्यसिद्धिः पुनरेवम्-रसनेन्द्रियं पृथिव्यादिचतुष्टयान्तर्गतं न भवति, इन्द्रियत्वे सति रूपगन्धस्पर्शशब्दाव्यञ्जकत्वात्; यन्नैवं न तदेवं । यथा घ्राणादि इति ।।२०।। विषयस्वरूपं निरूपयति
विषयः समुद्रादि: ।।२१।। शरीरेन्द्रियाभ्यां व्यतिरिक्तं भोक्तुर्भोगनिमित्तं यत् शीतस्पर्श वस्तु स विषयः' । स क इत्याह 'समुद्रादिः'। समुद्रः प्रतीत एव । 'आदि'शब्दात् सरित्-सरोवर-कूपादिपानीयानि व्यणुकादिक्रमेणारब्धानि गृह्यन्ते । न तु विषयशब्देनाऽत्र पूर्वत्रोत्तरत्रापि प्रतीतिगोचरत्वं' ग्राह्यम, तस्य कार्यव्यतिरिक्तेषु परमाणुष्वपि सम्भवात; इह तु कार्यलक्षणानामेवापां भेदानां प्रस्तुतत्वादिति ।।२१।। तृतीयद्रव्यभेदान् व्यनक्ति
तेजोऽपि नित्यमनित्यं च ।।२२।। 'च' शब्दोऽनुगमार्थः ।।२२।। किं नाम नित्यं किञ्चानित्यमित्याह
परमाणुरूपं नित्यं कार्यरूपमनित्यम् ।।२३।। 'रूप' शब्दः स्वभावार्थः । शेषं कृतव्याख्यानम् ।।२३।। द्वितीयप्रकारं भिनत्ति
तदपि शरीरेन्द्रियविषयरूपम् ।।२४ ।। 'तदपि' कार्यरूपं त्रिप्रकारम् ।।२४ ।। तत्राद्यं शरीरं वास्तीत्याह
१. रसव्यञ्जकं रसनम् क । २. रसनेन्द्रियं पृथिव्यादिचतुष्टयान्तर्गतं न भवति इति न । एतावता पृथिव्यादि-चतुष्टयान्तर्गत
भवति, रसनेन्द्रियस्य इन्द्रियत्वे सति रूपगन्धस्पर्शशब्दाव्यञ्जकत्वं, न रूपगन्धस्पर्शशब्दव्यञ्जकं भवतीत्यर्थः, यथा घ्राणादि अ. १. पा. टि. । ३. सरित्समुद्रादिः क. नि. । ४. ज्ञानविषयत्वं ज्ञानविषयशब्देन न ज्ञेयम् अ. १ पा. टि. । ५. विषयस्य अ. १ पा. टि. । ६. परमाणुलक्षणं. क. नि. । ७. कार्यलक्षणम् क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org