________________
सप्तपदार्थी
कालस्तु उत्पत्तिस्थितिविनाशलक्षणत्रिविधः ।।३८।। तत्र पदार्थानां जायमानता 'उत्पत्तिः' । 'स्थितिः' वर्तमानत्वम् । 'विनाशः' प्रध्वंस : । तेषां निमित्तत्वोपाधिना कालस्यैकस्यापि त्रयो भेदा भवन्ति । तथाहि-पदार्थस्योत्पत्तिं कुर्वन् उत्पत्तिकाल इति व्यपदिश्यते, स्थितिनिमित्तत्वात्स्थितिकालः, विनाशनिमित्तत्वाद्विनाशकाल इति । यथैकोऽपि पुमान् नाटककरणान्नाटकी, पचनक्रियाकरणात्याचक इति व्यपदिश्यते ।
ननु पदार्थानामुत्पत्तिस्थित्यादिनिमित्तत्वं कालस्य कुतः ? सन्निधिवशाद् इति चेत; न, आकाशादीनामपि सन्निधेर्वर्तमानत्वात् । 'अमुष्मिन् काले जातः' 'अमुष्मिन् काले विनष्टः' इत्यधिकरणत्वेन व्यपदिश्यमानत्वादिति चेत; तदपि न सङ्गच्छते । 'गेहे जातः' 'अटव्यां जातः' इत्यादिप्रकारेण गेहादीनामप्यनिमित्तानामप्यधिकरणत्वोपदेशात् । तस्मात् कालस्योत्पत्त्यादिनिमित्तत्वं नोपपद्यत इति चेत् ।
तदसत्, घटादिकार्योत्पत्तौ कारणकुलालादिनियमे सत्यपि कालविशेषे नियमादेव सर्वेषामुत्पत्तिदर्शनात्तस्य निमित्तत्वोपपत्तेः । कालविशेषस्यानिमित्तत्वे सर्वकालं कारणानि कार्य कुर्युरविशेषात् । उक्तं च
__ "कालः करोति भूतानि कालः संहरते तथा ।" ।।३८ ।। सप्तमद्रव्यस्य दिशो भेदान् दर्शयतिदिग् ऐन्द्री आग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ईशानी नागी, ब्राह्मी रौद्रीचेत्येकादशविधा ।।३९।।
__ एकेनाधिका दश । तावत्सङ्ख्या विधाः प्रकारा यस्याः सा तथा । इन्द्रस्येयमैन्द्री, इन्द्रो देवता अस्या इति वा 'ऐन्द्री'३ । सा च पूर्वा दिग् लोकव्यवह्रियमाणा गृह्यते । अग्नेरियमग्निर्देवताऽस्यामिति' वा 'आग्नेयी' | सा च ‘अग्निकोणकः'। यमस्येयं 'याम्या' दक्षिणा दिगिति । नैर्ऋतो देवताऽस्यामिति 'नैर्ऋती' दक्षिणपश्चिमान्तरालवर्ती नैर्ऋतकोणक इति । वरुणस्येयं वरुणो देवताऽस्यामिति 'वारुणी' । सा च पश्चिमेति सझान्तरा । समासः सर्वत्र पूर्ववदूह्य: । 'वायव्या' तु पश्चिमोत्तरयोरन्तरालवर्ती वायव्यकोणः । 'कौबेरी' उत्तरा दिग् । 'ईशानी'६ ईशानकोणकः पूर्वोत्तरयोरन्तरालवर्ती। 'नागी' अधोभागः । 'ब्राह्मी' ऊर्ध्वा दिग् । 'रौद्री' दशानामपि दिशां मध्यमभाग इति । एतच्चादित्यस्य मेरोः परितः परिवर्त्तमानस्य संयोगविशेषोपाधिना एकस्या अपि दिशो भेदप्ररूपणमिति ।।३९।।
किमाकाशादीनां त्रयाणां भेदकथनं पृथिव्यादिवद् वास्तवं किं वोपाधिकृतमिति व्याख्यामश्रद्दधानस्य कस्यचित् सन्देहं पिनष्टि
१. ऐशानी इति कनिपुस्तकेऽपि 'ईशानी' इति पादटिप्पणे । २. रौद्री च क. नि. । ३. इति ऐन्द्री अ. २ । ४.
अस्या इति अ. २ । ५. कोणिक अ. १। ६. 'एशानी' क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org