________________
सप्तपदार्थी
इति चेत् ? प्रमाणविरोधात्; प्रमाणं चाद:-परमाणुपरिमाणमनारम्भकं नित्यद्रव्यपरिमाणत्वादादाकाशपरिमाणवत् । तथा चोक्तं भाष्यकारेण "आरम्भकत्वं' चान्यत्र पारिमाण्डल्यादिभ्यः [भा० २९] । परिमाण्डल्यं च परमाणुपरिमाणमुच्यते ।" व्यणुकपरिमाणस्याप्यनारम्भकत्वं त्र्यणुकपरिमाणस्य मध्यमस्य विजातीयत्वेनाकारणत्वात् ।
ननु व्यणुकपरिमाणात्परमाणुपरिमाणस्य कुतः परमत्वम्, अणुत्वाविशेषाद् इति चेत्, उच्यतेव्यणुकं समवायिकारणादधिकपरिमाणं कार्यत्वात्, तन्तूत्पन्नपटवत् । व्यणुकस्य समवायिकारणं च परमाणुः । ततः किञ्चिदधिकपरिमाणादतिशयादणुत्वेन परमाणुपरिमाणस्य परमत्वमिति ।
____ परमाणवः स्वरूपं लक्षणं यस्याः सा ‘परमाणुलक्षणा' परमाणुस्वभावेति यावत् । तत्प्रतीतौ प्रमाणमदः- 'मूर्त्तमादिकार्यं कुतश्चित्समवायिकारणादुत्पन्नं भावकार्यत्वात्, घटवत् । यद् आदिकार्य तन्न कार्यान्तरात् समवायिकारणादुत्पद्यते तस्य कार्यरूपात् कारणादवश्यं पश्चाद्भावित्वेन आदिकार्यत्वभङ्ग-प्रसङ्गात्, अतो यन्नित्यं तत्तस्य समवायिकारणम्, ते परमाणव इति सा नित्या ।
अत्राहरेके-पृथिवीपरमाणवोऽनित्याः, पाकजरूपाधिकरणत्वात् घटवत् । तन्न किञ्चित. परमाणूनां ग्राहकेण प्रमाणेन नित्यत्वेनैव ग्रहणात् कालात्ययापदिष्टत्वात् । तथाहि-पृथिवीत्वं नित्यसमवेतम्, घटपटजातित्वात, सत्तावत् । अस्यायमवयवार्थ:--नित्ये समवायलक्षणा वृत्तिर्यस्य तन्नित्यसमवेतम् । घटश्च पटश्चं घटपटौ, तयोः साधारणा जातिः । तत्र तत्त्वं नाम धर्म:-स्वरूपम्, न पुनर्जातिः, जातौ जात्यन्तरासम्भवात् । तस्मात् घटपटयोः साधारणा जातिः पृथिवीत्वं द्रव्यत्वं सत्ता वा स्यात् । घटत्वं तु घटमात्रनिष्ठत्वात् घटपटयोः साधारणं न भवति । पटत्वमपि पटमात्रनिष्ठत्वात् तथा । न च घटपटमात्रनिष्ठं घटपटत्वं नाम अवान्तरजातिभेदोऽस्ति । द्रव्यत्वसत्वे तु नित्येष्वाकाशादिषु समवेते सिद्धे । न च पृथिवीत्वमप्याकाशादिषु समवेतमिति सम्भवति । ततः काचित् पृथिवी नित्याङ्गीकार्या । सा च न कार्यलक्षणा भवेत् कार्यत्वनित्यत्वविरोधात् । अतः परमाणुलक्षणा पृथिवी नित्येत्यनिच्छताप्यङ्गीकार्या । 'कार्यलक्षणा' कारणाधीनोत्पत्तिमती प्रध्वंसयोग्या । 'तु' पुनरर्थः ।।११।। आद्यभेदविशेषाणामानन्त्याद्वक्तुमशक्यत्वाद् द्वितीयभेदस्य प्रभेदानभिदधाति
सा' शरीरेन्द्रियविषयरूपा ।।१२।। 'सा' कार्यलक्षणा पृथिवी 'शरीररूपा', 'इन्द्रियरूपा', 'विषयरूपा'; रूपशब्दस्य सर्वत्राभिसम्बन्धात् त्रिप्रकारा भवति ।।१२।।
तत्र प्रथमं प्रकार प्रकाशयति
१. करिणत्वं कं कि । २. साऽपि क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org