________________
सप्तपदार्थी
शरीरमस्मदादीनां प्रत्यक्षसिद्धम् ।।१३।। __ शरीरं' भोगायतनम् 'अस्मदादीनाम्', वयमादौ येषां तेऽस्मदादयो देवर्षिमानुषपिपीलिकासर्पप्रभृतयः प्राणिनस्तेषाम् । अत्र यत् स्वस्यादित्वं तद् तद्वद्, वक्तुरत्यन्तं सुप्रतीत्वात्, न तु स्वस्य पूज्यत्वख्यापनार्थम् । तत्प्रत्यक्षेण चक्षुषा स्पर्शनेन वा सिद्धं प्रतीतं 'प्रत्यक्षसिद्धम्' ।
____ ननु देवर्षिप्रमुखाणां शरीराणामप्रत्यक्षत्वात् प्रत्यक्षसिद्धमित्यसम्बद्धमिति चेत् । न, अभिप्रायापरिज्ञानात् । प्रत्यक्षसिद्धमित्यनेन यथा आप्यांदिशरीरमप्रत्यक्षमेव, न तथा पार्थिवमित्याचष्टे ।
ननु तैजसशरीरमपि सूर्यमण्डलादिप्रत्यक्षेण लक्ष्यते इति चेत्, न, तस्य तैजसविषयान्तगणनात् । शरीरं पुनस्तदन्तर्गतमन्यदेवाभ्युपगम्यते । - अस्मदादीनां शरीरं पार्थिवम्, भौमाग्नीन्धनत्वात्, काष्ठवत् । न च घृतादिषु व्यभिचारः, तेषामपि गन्धवत्त्वेन पार्थिवत्वसिद्धेः ।
___ यत्कैश्चिदतत्त्वज्ञैः ‘शरीरमेवात्मा' इत्युक्तम्, तदस्मदादीनां शरीरमिति व्यधिकरणोपदेशेन निराकृतम् । तस्मादस्थिरे शरीरे न विद्वद्भिः ममता कार्या । यत उक्तम्
“प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ।
शरीरमात्मनो भिन्नं ममता तत्र वर्जयेत् ।।" ।।१३।। द्वितीयभेदमाख्याति
इन्द्रियं गन्धव्यञ्जकम् ।।१४।। गन्धस्य घ्राणस्य गुणस्य व्यञ्जकं प्रकटीकारकारणं यदिन्द्रियं तत्पार्थिवम् । तत्प्रतीतौ प्रमाणमिदम् ‘गन्धज्ञानं कुतश्चिदसाधारणकारणादुत्पन्नं, कार्यत्वात्, घटवत् । न चात्र नकाद्यधिष्ठानं तत्कारणम्', उपहतेन्द्रियस्यापि तद्दर्शनात् । कारणं च अन्वयव्यतिरेकाभ्यामवधृतसामर्थ्यमेव तावत् । न च मनः करणम्, तस्य रूपादिप्रतीतावपि साधारणत्वात् । ततो यदिन्द्रियं तत्करणं तत् पार्थिवम् । तत्रानुमितिर्यथा-विमतो' गन्धो गन्धवदभिव्यञ्जकाभिव्यक्तो गन्धत्वात्, घृताभिव्यक्तकुङ्कुमगन्धवत्; इति गन्धवत्त्वसिद्धौ घ्राणेन्द्रियं पार्थिवं, गन्धत्वात्, पुष्पवत् ।
नन् इन्द्रियाणामभौतिकत्वा(त्) पार्थिवत्वं घ्राणेन्द्रियस्य भस्मोपरिप्रलेपप्रायमिति चेत्; न, बाह्येन्द्रियाणि प्राप्यकारीणि, व्यवहिताऽप्रकाशकत्वात् प्रदीपवदिति । तत्सिद्धेरिति ।।१४।।
तृतीयं भेदं प्राह
१. देव ऋषि अ. २. । २. पृथग्विभक्तिकरणेन. अ. १ पा. टि. । ३. गन्धज्ञान अ. १ पा. टि. १७. । १. ... विवादोपपन्न: आधुनिको वा. अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org