________________
समपदार्थी
तत् प्रलापमात्रम्; संयोगविभागद्वित्रिपृथक्त्वादिषु धर्मेष्वनेकनिष्ठेषु पूर्वोक्तविकल्पदूषणानिवृत्तेरतिप्रसङ्गात् ।।८।।
अभावभेदानभिदधातिअभावस्तु प्रागभाव-प्रध्वंसाभावा'-ऽत्यन्ताभावा-ऽन्योऽन्याभावलक्षणश्चतुर्विधः ।।९।।
'तु' शब्द: पुनरर्थः । चत्वारो विधाः प्रकारा यस्य स तथा । 'लक्षण' शब्द: स्वरूपार्थः । 'प्राक्' पूर्वं प्रतियोगिनोऽभावोऽविद्यमानता 'प्रागभावः' । यथा तन्तुषु पटस्यानुत्पन्नस्य । प्रध्वंसश्चासावभावश्च, प्रध्वंसे सति वाऽभावः, न तु प्रध्वंसस्याभाव इति समासः । यथा लकुटाअभिघाते' जाते घटादिविनाशः । अत्यन्तमनाद्यनन्तत्वेनाऽभावः ‘अत्यन्ताभावः' । यथा आत्मनि रूपस्य, घटादिषु ज्ञानस्याभावः । अन्योऽन्यं परस्परमभावः ‘अन्योऽन्याभावः' । यथा घटः पटो न भवति, पटो घटो न भवति ।
ननु पृथक्त्वेनैवास्य प्रत्ययस्य सिद्धत्वात् किमन्योऽन्याभावकल्पनेनेति चेत्; न, गुण-गुणिनोः 'गुणो गुणी न भवति' 'गुणी गुणो न भवति' इति स्वरूपभेदेनैव परस्परं भेदे अन्योऽन्याभावस्य सम्भवात् । पृथक्त्वं तु पृथगाश्रयाश्रितयोः 'अयमस्मात् पृथग्' इति पृथग्व्यवहारे सत्येव भवति नाऽन्यथा, अतोऽस्य कल्पना ।।९।।
एवं सप्तानामपि पदार्थानां मूलभेदानभिधाय तद्गतान् पुनर्विशेषानभिदधाति । तत्र पूर्वोद्दिष्टद्रव्यपदार्थप्रथमभेदस्य पृथिवीलक्षणस्य विशेषानाचष्टे
पृथिवी नित्याऽनित्या च ॥१०॥ 'नित्या' अविनाशिनी, 'अनित्या' प्रध्वंसयोग्या ।।१०।। सा का नित्या किं लक्षणा चाऽनित्येत्याह
परमाणुलक्षणा नित्याः, कार्यलक्षणास्त्वनित्याः ।।११।। परममण्वणुपरिमाणं यत्र स 'परमाणुः' । ननु परममिति विशेषणम् । विशेषणं च व्यवच्छेदकं भवति; तर्हि किमिदं विशिनष्टि-विशेषणं करोति इति ? तदुच्यते-व्यणुकेऽप्यणुपरिमाणं वर्तते । तन्निवृत्त्यर्थं परमेति। व्यणुकेऽणुपरिमाणं न सम्भवतीति चेत्; न व्यणुकपरिमाणमणुरूपं भवति, द्रव्यारम्भकद्रव्यनिष्ठत्वे सति अनारम्भकपरिमाणत्वात्, परमाणुपरिमाणवत् । ननु परमाणुपरिमाणस्यानारम्भकत्वे व्यणुके कुतः परिमाणारम्भ इति चेत् ? एकत्वसङ्ख्यात इति वदामः । ननु यथा कपालादिपरिमाणं घटादिपरिमाणस्यारम्भकम, तथा परमाणुपरिमाणमेव परिमाणस्यारम्भकं कुतो नोच्यते
१. द्वि अ. २ । २. रितिप्रसङ्गात् अ. १ । ३. भावान्योन्याभावात्यन्ताभाव क. । ४. लुकु -अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org