________________
सप्तपदार्थी
अत्राह भाट्टभट्टारकः-ननु शब्दस्य गुणत्वमनुपपन्नं, यतः- 'शब्दो द्रव्यं भवितुमर्हति, साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वात् घटवत्' इति प्रमाणविरोधात् । न च–'अत्र साक्षादिन्द्रियसम्बन्धः संयोगः समवायो वा ? समवायश्चेत्; तर्हि प्रतिज्ञाहेत्वोर्विरोधः, शब्दप्रत्यायकमिन्द्रियं श्रोत्रं तच्चाकाशरूपं, तस्मिन् शब्दद्रव्यं समवेतमिति न सम्भवति, अमूर्त्तद्रव्ये द्रव्यान्तरसमवायासम्भवात् । संयोगश्चेत् तर्हि संयोगसिद्धौ द्रव्यत्वसिद्धिः, तत्सिद्धौ संयोगसिद्धिरिति परस्पराश्रयः स्यात्'---इति .वाच्यम्; साधनसामान्यस्यैव साध्यगमकत्वात् । विशेषाङ्गीकारे तु धूमानुमानेऽपि 'धूमः पर्वतनिष्ठो अन्यो वा ? आद्यश्चेत्; साधनविकलो दृष्टान्तः । अन्यश्चेदसिद्धो हेतुः' इतिप्रकारैः सर्वानुमानभङ्गप्रसङ्ग इति । तस्मात् साक्षादिन्द्रियसम्बन्धश्चोभयवादिसिद्धः सन् सामान्याकारेणैव गृह्यत इति चेत् ।।
___ अत्र पृच्छामः-शब्दोमूर्तं द्रव्यममूर्तं वा ? आद्यश्चेत्; स्पर्शशून्यः स्पर्शवद् वा ? नान्त्यः, शब्दः स्पर्शशून्यः, प्रत्यक्षत्वे सति स्पर्शनाऽग्राह्यत्वात् इति प्रमाणविरोधात् । नाप्याद्यः, प्रत्यक्षस्पर्शशून्यस्यामूर्त्तत्वाविनाभावात् । अथाऽमूर्तश्चेत; न, 'शब्दोऽमूर्तं द्रव्यं न भवति बाह्येन्द्रियेण प्रतीयमानत्वात् पटवत्' इति प्रमाणबाधितत्वात् । अत:-'शब्दो द्रव्यं न भवति, मूर्त्तामूर्त्तद्रव्ययोरनन्तर्भूतत्वाद् गुणादिवत्' इति । तस्माच्छब्दो गुण एव । तत्रानुमितियथा 'शब्दो गुणो भवितुमर्हति, कर्मान्यत्वे सति जातिमात्राश्रयत्वात्' रूपवत् । द्रव्यसाधकं साधनमपि संयोगित्वोपाधिना बाधितत्वेनागृहीतव्याप्तिकत्वान्न किञ्चिदिति ।।४।।
अथ क्रमप्राप्तानि कर्माणि भिनत्ति
कर्माण्युत्क्षेपणा-ऽपक्षेपणा-ऽऽकुञ्चन-प्रसारण-गमनानि पञ्चैव ।।५।।
निगर्दसिद्धमिदं सर्वम् । सर्वस्यौर्ध्वकर्मर्णः स्वर्गादिगमनस्याभीष्टत्वादादावुत्क्षेपणस्यापक्षेपः । तदनु तद्विरुद्धत्वादपक्षेपणस्य । प्रसारणस्याकुञ्चनपूर्वकत्वात् पूर्वमाकुञ्चनस्य । ततश्च तद्विपरीतत्वात् प्रसारणस्य । तदनु अवशिष्टस्य गमनस्य । भ्रमण-रेचन-स्पन्दनादीनां गमनान्तर्गतत्वेन नाधिकत्वम् ।।५।। अथ सामान्यभेदान्निरूपयति
सामान्यं परमपरं परापरं चेति' ।।६।। परस्परं विभक्तेषु पदार्थेषु योऽनुवृत्तिप्रत्ययो जायते तत्र सामान्य कारणम् । तत्त्रिविधं भवति-केवलानुवृत्तिहेतुभूतं परम् । परापेक्षया अत्यल्पवृत्त्यपरम् । तदुभयस्वभावं परापरम् ।
अत्यधिकत्वात्पूर्व परस्य, परापरस्वरूपज्ञानस्य परापरयोञ्जनपूर्वकत्वात्परापरसामान्यात् पूर्वमपरस्य, तदनु अवशिष्टस्य परापरस्योपन्यासः ।
१. प्रकटमित्यर्थः अ. १ पा. टि. । २. चेति त्रिविधम् क. नि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org