________________
सप्तपदार्थी
ननु परं सामान्यं सत्ता, अपरं द्रव्यत्वादि तदपेक्षया पृथिवीत्वादि तदपेक्षया घटत्वादि; ततः सामान्यद्वैविध्येनैव कार्यसिद्धौ किमनेनाकाण्डकूष्माण्डपातकल्पेन [परापरेण] कल्पितेन इति चेत् ? तदयुक्तम्, घटत्वसामान्यापेक्षया किं पृथिवीत्वं परमपरं वा ? न तावदपरं ततोऽधिकवृत्तित्वात् सत्तावत् । नापि परं स्वाश्रयादितरेभ्यो जलादिभ्यो व्यावर्तकत्वात् । यच्च परं तन्न स्वाश्रयव्यावर्तकम् । यद्यपि सत्ता सामान्यादिभ्यः स्वयं व्यावृत्ता तथाऽपि न स्वाश्रयमितरेभ्यो व्यावर्तयति, तेषामपि सद्बुद्भिवेद्यत्वात् । तर्हि तेष्वपि सत्तापत्तिरिति चेत्; तदास्तां नाम उपचारात् । कथं तर्हि सर्वत्राप्युपचारादेव न कल्पेत इति चेत् ? न, क्वचित्तात्त्विकाभावे उपचारासम्भवात् । उपचारश्च तात्त्विकासम्भव एव भवति । सत्ता हि सामान्यादिष्वसम्भाविनी । तथाहि सत्तायां सत्ताङ्गीकारे आत्माश्रयः । सामान्यान्तराङ्गीकारे च तत्रापि सामान्यान्तरं तत्रापि तथैवेत्यनवस्थादौस्थ्यं स्यात् । विशेषेषु सामान्याङ्गीकारे स्वरूपहानिप्रसङ्गः । यश्च विशेषेषु 'अयं विशेषः', 'अयं विशेषः' इत्याकारोऽनुगमोऽस्ति स विशेषग्राहकव्यावृत्तिप्रत्ययगतसामान्यकृत एव । समवाये च सम्बद्धमसम्बद्धं वा वर्त्तते ? न तावदसम्बद्धं सामान्यस्यासम्बद्धस्य क्वचिद्वर्त्तनाऽसम्भवात् । नापि सम्बद्धम् सम्बन्धो हि संयोगः समवायो वा ? न तावदाद्यः, द्वयोर्द्रव्ययोरेव संयोगसम्भवात् । नापि समवायः सम्बन्धस्य नियमेनोभयनिष्टत्वेन समवायेऽपि वृत्तित्वापत्त्या अंशे आत्माश्रयप्रसङ्गात् । नाप्यभावे पूर्वोक्तसम्बन्धासम्भवात् । अतः सामान्यादिषु तात्त्विकसत्ताङ्गीकारे बाधासम्भवात् तेषामपि सदबुद्धिवेद्यत्वाच्चोपचारादस्तीति सारे कल्प्यत इति । पृथिवीत्वं व्यावर्तकं सामान्यं च भवति, अनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् । परापरभेदयोश्च नान्तर्भूतं, तस्मात् पृथिवीत्वादि परापरं सामान्यान्तरं कल्य्यत इति ।
__ अथ मतं यत् स्वाश्रयव्यावर्तकं तदपरम्, न पुनरल्पवृत्तीति । न, विशेषेष्वन्त्येषु व्यभिचारात् । सामान्यमिति विशेषणाङ्गीकारे द्रव्यत्वादिषु व्यभिचारः । ननु तदपरमेवेति चेत; न, प्रमाणविरोधात् । तथाहि-द्रव्यत्वादिसामान्यमपरं न भवति, स्वतोऽल्पवृत्तिजात्यन्तरवदाश्रितत्वात् सत्तावत् । यदपरं तत्तथा न भवति यथा घटत्वम् । नापि परम् स्वाश्रयव्यावर्तकत्वात् घटत्वघटत्वत् । अत: पारिशेष्यात् परापरं सामान्यान्तरमकामेनाप्यभ्युपगन्तव्यम् ।
___ अथाहुरेके पदार्थानां स्वरूपमेव सत्त्वं न पुनः पदार्थान्तरं शक्तिवद् इति; तदपि न शोभनम् । स्वरूपं पदार्थेभ्यो भिन्नमभिन्नं वा ? आद्ये कल्पे एकमेव तत्', प्रतिपदार्थं भिन्नं वा ? एकमेवेति चेत्, तर्हि सज्ञान्तरमात्रे विवाद: । द्वितीयपक्षे तु नानुवृत्तिप्रत्ययहेतु, प्रतिपदार्थं भिन्नत्वाद् विशेषवत् । अभेदपक्षाङ्गीकारे परस्परविलक्षणपदार्थेषु तदव्यतिरिक्तं स्वरूपं कथमनुवृत्तिप्रत्ययं कुर्यात् ? परस्परव्यावृतत्त्वेन केवलव्यावृत्तिप्रत्ययहेतुत्वासम्भवाद' विशेषवदिति ।।६।।
विशेषभेदानाह१. उपचारसंभवः अ. १ । २. यस्य - अ. १ । ३. औपचारिकी सत्ता अ. पा. टि. । ४. इति आक्षेप अ. १ पा. टि. । ५. स्वरूपम् अ. १ पा. टि. । ६. नामान्तर अ. २ । ७. हेत्वसम्भवात् अ. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org